Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २१ सेप्टेम्बरमासः (हि.स.)। लोकसभाध्यक्षः ओमबिरलामहोदयः सोम-वासरे राजस्थानस्य लोकश्रद्धायाः शौर्यस्य च गौरवशालिन्याः परम्परायाः प्रतीकाय वीरतेजाजीमहाराजाय दशम्यां तिथौ तथा जनजनस्य आराध्याय लोकदेवतायै बाबारामदेवाय च जयन्त्य-वसरे नमनं कृतवान्।
बिरलामहोदयः सामाजिकमाध्यमे ‘एक्स’ इत्यत्र लिखितवान्— “वीरतेजामहाराजस्य जीवनं सत्यस्य, वचनपालनस्य, साहसस्य, त्यागस्य जनकल्याणस्य च प्रेरणां ददाति। शताब्देभ्यः राजस्थानस्य जनानां हृदयेषु तेजामहोदयं प्रति या अटूटा श्रद्धा वर्तते, सा अस्माकं समृद्धलोकसंस्कृतेः परम्पराणां च जीवन्तं प्रमाणम् अस्ति। अद्य तेजादशम्याः अवसरे सम्पूर्णराज्ये श्रद्धालवः तेजामहाराजस्य पवित्रस्थलानि गत्वा पूजार्चनां कुर्वन्ति तथा सुखशान्ति-समृद्धिनां कामनां कुर्वन्ति। वीरतेजा-महाराजस्य आशीर्वादः सर्वेषु भवतु, प्रत्येकं परिवारं सुखशान्तिसमृद्धिभिः परिपूर्णं भवतु तथा राज्यवासिनां जीवने समृद्धिः आगच्छतु— इत्येव अस्माकं हार्दिकी कामना।”
सः अवदत् यत् बाबारामदेवस्य व्यापकं जनप्रियत्वं केवलं धार्मिकश्रद्धायाः पर्यन्तं सीमितं नास्ति। तस्य जीवनं सर्वेषां कृते प्रेरणापुञ्जम् अस्ति, यत् सामाजिक-समरसतायाः, समानतायाः, भ्रातृत्वस्य, सेवायाः मानवकल्याणस्य च शिक्षां ददाति। राजस्थानस्य, गुजरातस्य तथा देशस्य अन्येषु बहुषु भागेषु प्रचलितासु लोकपरम्परासु बाबारामदेवस्य विशेषं स्थानम् अस्ति। देशस्य सर्वेभ्यः भागेभ्यः श्रद्धालवः तं प्रति स्वकीयां श्रद्धां प्रकटयितुं रामदेवराम् आगच्छन्ति। बाबारामदेवस्य कृपा सर्वेषु भवतु तथा समाजे प्रेम्णः, सद्भावस्य, शान्तेः परस्परसम्मानस्य च भावना अधिका सुदृढा भवतु।
Hindusthan Samachar / Divya Ranjan