Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 21 सितंबरमासः (हि.स.)।
विकासखण्डबहादराबादस्य सलेमपुरग्रामे स्थिते आङ्गनवाडिकेन्द्रे २९ जिलाधिकारी मयूरदीक्षितस्य पत्नी प्रज्ञादीक्षितेन स्वकीयः जन्मदिनोत्सवः बालकैः सह सरलतया आत्मीयतया च आचरितः। सा आङ्गनवाडिकेन्द्रं प्राप्य बालकैः सह केक् इति खाद्यपदार्थं छित्त्वा जन्मदिनस्य हर्षं तैः सह साझीकृतवती।
अस्मिन् अवसरे तया केन्द्रस्य सर्वेभ्यः बालकेभ्यः उपहाराः वितरिताः। तया बालकैः सह समयः यापितः, तैः सह वार्तालापः कृतः तथा तेषां उज्ज्वलभविष्याय शुभकामना प्रदत्ता। बालकाः अपि उत्साहेन जन्मदिनसमारोहे भागं गृहीत्वा तस्यै शुभकामनाः प्रदत्तवन्तः।
कार्यक्रमे आङ्गनवाडिकार्यकर्त्रीणां स्थानीयमहिलानां च उपस्थित्या वातावरणं हर्षपूर्णम् अभवत्। दीक्षितया उक्तं यत् बालकैः सह जन्मदिनम् आचरितुं तस्यै अत्यन्तं सुखदः भावनात्मकश्च अनुभवः अभवत्। तया बालकानां उत्तमस्वास्थ्यस्य, पोषणस्य शिक्षायाश्च आवश्यकतां प्रतिपाद्य आङ्गनवाडिकेन्द्राणां भूमिकायाः प्रशंसा कृता।
अस्मिन् अवसरे जिलाधिकारी मयूरदीक्षितेन आङ्गनवाडिकेन्द्रे बालकेभ्यः गुणवत्तापूर्णशिक्षया सह पौष्टिकाहारस्य उपलब्धतां सुनिश्चितुं निर्देशाः प्रदत्ताः। कार्यक्रमे प्रभारीजिलाकार्यक्रमाधिकारी बालविकासः अविनाशभदौरिया, परियोजनाधिकारी बालविकासः सुलेखासहगलः, आङ्गनवाडिकार्यकर्त्री, सहायिका केन्द्रस्य बालकाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani