जिलाधिकारिणा योजनानां समीक्षा कृता, समयबद्धगुणवत्तापूर्णकार्याय निर्देशाः प्रदत्ताः
हरिद्वारम्, 21 सितंबरमासः (हि.स.)। जिलाधिकारिणा मयूरदीक्षितेन सोमवासरे जिलाकार्यालयस्य सभागारे विकासयोजनानां समीक्षा कृता। तेन अधिकारिभ्यः जिलायोजनायाः प्रथमकिस्तस्य धनराशेः शीघ्रं व्ययस्य सुनिश्चिततां कर्तुं तथा स्वीकृतकार्याणि गुणवत्तापूर्वकं सम
बैठक लेते डीएम


हरिद्वारम्, 21 सितंबरमासः (हि.स.)।

जिलाधिकारिणा मयूरदीक्षितेन सोमवासरे जिलाकार्यालयस्य सभागारे विकासयोजनानां समीक्षा कृता। तेन अधिकारिभ्यः जिलायोजनायाः प्रथमकिस्तस्य धनराशेः शीघ्रं व्ययस्य सुनिश्चिततां कर्तुं तथा स्वीकृतकार्याणि गुणवत्तापूर्वकं समये एव पूर्णानि कर्तुं निर्देशाः प्रदत्ताः।

जिलाधिकारी अवदत् यत् जिलायोजनायाः द्वितीयकिस्तस्य स्वीकृत्यर्थं सर्वे विभागाः सितम्बरमासस्य त्रिंशत्तमदिनाङ्कपर्यन्तं स्वप्रस्तावान् जिलार्थसंख्याधिकारिणे उपलब्धान् कारयन्तु, येन स्वीकृतिप्रक्रिया समये एव पूर्णा भवेत्। योजनासु अनावश्यकविलम्बः न सह्यते। विंशतिसूत्रीयकार्यक्रमस्य समीक्षायां तेन डि तथा सी श्रेणीस्थेभ्यः विभागेभ्यः कार्यप्रदर्शनस्य सुधारं कृत्वा ए श्रेणीं प्राप्तुं निर्देशाः प्रदत्ताः। सेवासङ्कल्पाभियानस्य अन्तर्गतं ‘जनजनस्य शासनम्, जनजनस्य द्वारम्’ इति शिविरेषु सर्वेषां विभागीयाधिकारिणां अनिवार्यसहभागितां तथा प्राप्तशिकायतानां प्राथमिकतया निस्तारणं कर्तुं निर्देशः अपि प्रदत्तः।

सभायां मुख्यविकासाधिकारी डॉ. ललितनारायणमिश्रः, संयुक्तमजिस्ट्रेट् रुड़की दीपकरामचन्द्रसेठः, अपरजिलाधिकारी वैभवगुप्तः, अपरजिलाधिकारी जितेन्द्रकुमारः, मुख्यचिकित्साधिकारी डॉ. आर. के. सिंहः इत्यादयः सर्वे जिलास्तरीयाः अधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani