Enter your Email Address to subscribe to our newsletters




७२ तमे राष्ट्रियचलच्चित्रपुरस्कारसमारोहे भारतीयचलच्चित्रस्य उत्कृष्टप्रतिभानां सम्माननम्
अनन्तनागाय दादासाहेबफाल्के सम्मानः, ‘आर्टिकल ३७०’ इत्येतत् श्रेष्ठकथाचित्रत्वेन सम्मानितम्
एकतानगरम्, २२ सितम्बरम् (हि.स.)। गुजरातस्य एकतानगरे मङ्गलवासरे ७२ तमे राष्ट्रियचलच्चित्रपुरस्कारसमारोहे भारतीयचलच्चित्रस्य उत्कृष्टप्रतिभाः सम्मानिताः। राष्ट्रपतिः द्रौपदी मुर्मूः विभिन्नवर्गेषु विजेतृभ्यः पुरस्कारान् प्रदत्तवती। अस्मिन् अवसरे राष्ट्रपतिः द्रौपदी मुर्मूः स्वीयसम्बोधने अवदत् यत् लोकप्रियकलाकारैः स्वास्थ्याय हानिकरपदार्थानां प्रचारः न करणीयः। सा अवदत्, “नक्षत्रं तदेव यत् प्रकाशं प्रसारयति, न तु तमः।” सा चलचित्रमनोरञ्जनक्षेत्रयोः लोकप्रियतां प्रभावं च रेखाङ्कयन्ती कलाकारान् समाजस्य प्रति स्वकीयां दायित्वभावनां संरक्षितुं आहूतवती।
एकतानगरे प्रथमवारं आयोजिते राष्ट्रियचलच्चित्रपुरस्कारसमारोहे राष्ट्रपतिः द्रौपदी मुर्मूः महिलानां भूमिकामपि रेखाङ्कितवती। सा अवदत् यत् चलचित्रसहिते प्रत्येकस्मिन् क्षेत्रे महिलानां दृष्टिकोणस्य समावेशस्य आवश्यकता वर्तते। अद्य अनेके महिला कलाकाराः सम्मानिताः सन्ति, किन्तु निर्णायकमण्डलेऽपि महिलानां समावेशः करणीयः।
सा अवदत् यत् कस्मिन्नपि क्षेत्रे महिलानां दृष्टिकोणस्य समावेशेन एव समग्रमानवीयदृष्टेः निर्माणं सम्भवति।
राष्ट्रपतिः मुर्मूः अवदत् यत् चलचित्रं भारतस्य सांस्कृतिकैकतां सुदृढीकर्तुं महत्त्वपूर्णां भूमिकां निर्वहति। चलचित्राणि भाषायीभ्यः, क्षेत्रीयाभ्यः, सांस्कृतिकाभ्यश्च सीमाभ्यः परे गत्वा दर्शकान् देशस्य विविधाभिः कथाभिः, परम्पराभिः मानवीयानुभवैश्च संयोजयन्ति। सा पुरस्कारविजेतृभ्यः सम्पूर्णाय च चलचित्रजगत् भारतीयचलच्चित्रपरम्परायां योगदानाय अभिनन्दनं प्रदत्तवती।
सा अवदत् यत् सृजनात्मकक्षेत्रे सम्बद्धाः जनाः अर्थव्यवस्थायाः प्रमुखप्रतिनिधयः सन्ति। अतः अस्मिन् क्षेत्रे योगदानं कुर्वतां श्रमिकाणां, लघुकलाकाराणां, सहायकारणां संघर्षरतजनानां च सम्मानः सामाजिकसुरक्षा च भवेत्। राष्ट्रपतिः अवदत् यत् एकस्य चलचित्रस्य निर्माणे बहूनां जनानां योगदानं भवति तथा च दृश्यपटलस्य पृष्ठतः कार्यं कुर्वतां जनानां योगदानमपि स्मर्तव्यम्।
अस्मिन् अवसरे राष्ट्रपतिः द्रौपदी मुर्मूः समारोहे वरिष्ठाभिनेता अनन्तनागाय वर्ष २०२४ तमस्य प्रतिष्ठितं दादासाहेबफाल्केपुरस्कारं प्रदत्तवती। ‘आर्टिकल ३७०’ इति चलचित्राय श्रेष्ठकथाचित्रस्य पुरस्कारः प्राप्तः तथा यामीगौतमाय श्रेष्ठाभिनेत्रीपुरस्कारः प्रदत्तः। श्रेष्ठाभिनेतृपुरस्कारः ‘ब्रह्मयुगम्’ इति चलचित्राय मम्मूट्टी तथा ‘चन्दू चैम्पियन’ इति चलचित्राय कार्तिक आर्यन् इत्याभ्यां संयुक्तरूपेण प्रदत्तः।
७२ तमे राष्ट्रियचलच्चित्रपुरस्कारसमारोहे गुजरातस्य राज्यपालः आचार्यदेवव्रतः देहल्याः बहिः राष्ट्रियचलच्चित्रपुरस्कारस्य आयोजनस्य उपक्रमस्य स्वागतं कृतवान्। सः अवदत् यत् सरदारपटेलस्य विरासतया सम्बद्धे एकतानगरे समारोहोऽयं गुजरातस्य कृते गौरवस्य विषयः अस्ति। सः चलचित्रनिर्मातृभ्यः प्राकृतिककृषेः, स्वस्थजीवनशैल्याः, पर्यावरणसंरक्षणस्य राष्ट्रियैकतायाश्च विषयान् चलचित्रमाध्यमेन प्रवर्धयितुम् आह्वानं कृतवान्।
समारोहे गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः चलचित्रं समाजस्य प्रतिबिम्बं संस्कृतिं संयोजयितुं च सशक्तं माध्यमम् इति अवदत्। सः चलचित्रनिर्मातृभ्यः गुजरातस्य विविधायाः सांस्कृतिकविरासतायाः प्राकृतिकस्थलानां च चलचित्रनिर्माणाय उपयोगं कर्तुं निमन्त्रणं प्रदत्तवान्। केन्द्रीयसूचनाप्रसारणमन्त्री अश्विनीवैष्णवः राष्ट्रपतेः उपस्थितेः कृते कृतज्ञतां प्रकटयन् सर्वेभ्यः पुरस्कारविजेतृभ्यः अभिनन्दनं प्रदत्तवान्। सः अवदत् यत् चलचित्रं सामूहिकप्रयासः अस्ति तथा राष्ट्रियचलच्चित्रपुरस्काराः दृश्यपटलस्य पृष्ठतः कार्यं कुर्वतां जनानां योगदानमपि सम्मानयन्ति।
सूचनाप्रसारणमन्त्रालयस्य सचिवः चञ्चलकुमारः स्वागतोद्बोधने अवदत् यत् ७२ तमानां राष्ट्रियचलच्चित्रपुरस्काराणां कृते ३४ भाषाणां ४०० कथाचित्राणां तथा २४ भाषाणां १६१ अकथाचित्राणां प्रविष्टयः प्राप्ताः। एतेषु २२ कथाचित्रवर्गेषु तथा २३ अकथाचित्रवर्गेषु पुरस्काराः प्रदत्ताः। सः अवदत् यत् भारतीयचलच्चित्रं सांस्कृतिकाभिव्यक्तेः वैश्विकस्तरे कथाकथनस्य च सशक्तमाध्यमरूपेण निरन्तरं प्रगतिं करोति। विभिन्नभाषाणां क्षेत्राणां च चलचित्राणां सहभागिता भारतीयचलच्चित्रस्य विविधतां व्यापकप्रसारं च प्रदर्शयति।
चञ्चलकुमारः अवदत् यत् राष्ट्रियचलच्चित्रपुरस्कारसमारोहस्य आयोजनं देहल्याः बहिः गुजरातस्य एकतानगरे करणम् एकः महत्त्वपूर्णः उपक्रमः अस्ति। अयं कार्यक्रमः सरदारवल्लभभाईपटेलस्य राष्ट्रियैकतायाः दृष्ट्या प्रतिबद्धतया च प्रेरितः अस्ति।
‘आर्टिकल ३७०’ इति चलचित्रं श्रेष्ठकथाचित्रस्य सम्मानं प्राप्तवत्। ‘अमरन्’ इति चलचित्राय राजकुमारपेरियासामी श्रेष्ठनिर्देशकपुरस्कारं प्राप्तवान्। ‘कल्कि २८९८ एडी’ इति चलचित्राय सम्पूर्णमनोरञ्जनं प्रददती श्रेष्ठलोकप्रियचलच्चित्रस्य पुरस्कारः प्राप्तः। ‘स्वातन्त्र्यवीरसावरकर’ इति चलचित्राय रणदीपहूडाय श्रेष्ठनवोदितनिर्देशकस्य सम्मानः प्रदत्तः। ‘भंगार’ इति चलचित्रं श्रेष्ठमकथाचित्ररूपेण चयनितम्, ‘राम-नामी’ इति चलचित्राय श्रेष्ठवृत्तचित्रस्य पुरस्कारः प्रदत्तः।
Hindusthan Samachar / Dheeraj Maithani