भारतीयचलच्चित्रे उत्कृष्टयोगदानाय अभिनेता अनन्तनागाय दादासाहेबफाल्केपुरस्कारः
नवदिल्ली, २२ सेप्टेम्बरमासः (हि.स.)। वरिष्ठः अभिनेता अनन्तनागः भारतीय-चलच्चित्रे स्वकीययोगदानाय उत्कृष्टचल-च्चित्रयात्रायै च दादासाहेब-फाल्के-पुरस्कारेण २०२४ इत्यस्मिन् वर्षे सम्मानितः। गुजरातस्य केवडियास्थिते एकतानगरे मङ्गलवासरे आयोजिते ७२ तमे राष
अभिनेता अनंत नाग


अभिनेता अनंत नाग


नवदिल्ली, २२ सेप्टेम्बरमासः (हि.स.)। वरिष्ठः अभिनेता अनन्तनागः भारतीय-चलच्चित्रे स्वकीययोगदानाय उत्कृष्टचल-च्चित्रयात्रायै च दादासाहेब-फाल्के-पुरस्कारेण २०२४ इत्यस्मिन् वर्षे सम्मानितः। गुजरातस्य केवडियास्थिते एकतानगरे मङ्गलवासरे आयोजिते ७२ तमे राष्ट्रियचलच्चित्र-पुरस्कारसमारोहे राष्ट्रपतिः द्रौपदीमुर्मुः तम् एतेन सम्मानेन सम्मानितवती।

अनन्तनागाय पञ्चदशकात् अधिक-कालपर्यन्तं विस्तृतायै तस्य उत्कृष्टायै चलच्चित्रयात्रायै एषः पुरस्कारः प्रदत्तः, या कलाकाराणां अनेकेषां वंशानां प्रेरणास्रोतः अभवत्। अभिनेता अनन्तनागः ७२ तमे राष्ट्रियचलच्चित्रपुरस्कारसमारोहे दादासाहेबफाल्केपुरस्कारं तैः कलाकारैः तन्त्रज्ञैश्च सह समर्पितवान्, यैः सह सः कार्यं कृतवान्। अस्मिन् अवसरे सः स्वकीयस्य अभिनयस्य प्रारम्भिकयात्रायाः सम्बद्धान् अनुभवान् अपि सहभागं कृतवान्। सः अवदत् यत् सः अस्य भव्यसमारोहस्य गरिमाम् अनुभवितुं प्रयतते। सः अवदत् यत् स्वजीवने एतादृशेषु अत्यल्पेषु समारोहेषु भागं गृहीतवान् अस्ति तथा अत्र उपस्थितः भूत्वा सः अत्यन्तं प्रसन्नः अस्ति।

अनन्तनागः स्वबाल्यकालं स्मृत्वा अवदत् यत् तस्य जीवनस्य प्रारम्भिकानि द्वादश वर्षाणि आश्रमस्य मठस्य च वातावरणे व्यतीतानि। ततः सः मुम्बय्यै प्रेषितः, यत्र तस्मै अभिनयस्य अवसरः प्राप्तः। सः अवदत् यत् ‘चैतन्यमहाप्रभुः’ इति नाटके अभिनयस्य अवसरः तस्मै प्राप्तः। एतेन नाटकेन एव तस्य अभिनयजीवनस्य प्रारम्भः अभवत्। सः अवदत् यत् तस्मिन् समये सः एतत् स्वकीयां वृत्तिं न अमन्यत, यतः भविष्ये किं भविष्यति इति कस्यापि अनुमानं न आसीत्। शनैः शनैः अभिनयं प्रति तस्य अनुरागः वर्धितः तथा एषा एव तस्य दीर्घस्य उल्लेखनीयस्य च चलच्चित्रयात्रायाः आधारः अभवत्।

अनन्तनागस्य जन्म ४ सेप्टेम्बरमासे १९४८ तमे वर्षे कर्णाटके अभवत् तथा सः १९७० तमे दशकस्य प्रारम्भे अभिनयक्षेत्रे प्रविष्टवान्। सः कन्नडभाषायाः ‘सङ्कल्प’ इति पूर्णदैर्घ्यस्य चलच्चित्रेण स्वकीयस्य अभिनयजीवनस्य प्रारम्भं कृतवान्, ‘अङ्कुर’ इति चलच्चित्रेण च हिन्दी-चलच्चित्रक्षेत्रे पदार्पणं कृतवान्। सः षड्भिः भारतीयभाषाभिः निर्मितेषु ३०० तः अधिकेषु चलच्चित्रेषु विविधप्रकारकाणि पात्राणि सजीवतया प्रस्तुतवान्।

तस्य कार्येषु अत्यन्तं लोकप्रियं दूरदर्शनधारावाहिकं ‘मालगुडी डेज्’ इत्यपि अन्तर्भवति। सः पञ्च फिल्मफेयर-पुरस्कारान् तथा श्रेष्ठाभिनेतुः कृते पञ्च कर्नाटक-राज्यपुरस्कारान् प्राप्तवान्। भारतसर्वकारेण २०२५ तमे वर्षे सः पद्मभूषणसम्मानेन सम्मानितः।

Hindusthan Samachar / Divya Ranjan