Enter your Email Address to subscribe to our newsletters

एकता नगर , 22 सितंबरमासः (हि.स.)। केन्द्रीयसूचनाप्रसारणमन्त्री अश्विनीवैष्णवः उक्तवान् यत् राष्ट्रीयचलच्चित्रपुरस्कारान् अधुना देशस्य प्रमुखपर्यटनस्थलेषु अपि आयोजयितुं पहलः क्रियते। अस्याः पहलस्य उद्देश्यम् चलचित्रक्षेत्रस्य पर्यटनस्य च एकत्र संयोजनम् अस्ति।
राष्ट्रीयचलच्चित्रपुरस्कारसमारोहाय केवडियारेलस्थानकं प्राप्तस्य अनन्तरं माध्यमप्रतिनिधिभिः सह वार्तालापे अश्विनीवैष्णवः उक्तवान् यत् अस्याः पहलस्य आरम्भः एकतानगरात् क्रियते। सरदारवल्लभभाईपटेलस्य प्रतिमा प्राकृतिकसौन्दर्यं च कारणीकृत्य एकतानगरम् अधुना देशे विदेशे च प्रमुखपर्यटनस्थलत्वेन प्रसिद्धिम् आप्नोत्। राष्ट्रीयचलच्चित्रपुरस्कारस्य अवसरे राष्ट्रपतिः, चलचित्रजगतः प्रमुखाः कलाकाराः अन्ये च जनाः एकतानगरं प्राप्स्यन्ति। तेन अस्य पर्यटनस्थलस्य व्यापकपरिचयः भविष्यति।
अश्विनीवैष्णवः उक्तवान् यत् सर्वकारस्य प्रयासः अस्ति यत् राष्ट्रीयचलच्चित्रपुरस्काराः केवलं सम्मेलनकक्षपर्यन्तं सीमिताः न भवन्तु, अपितु सामान्यजनैः वास्तविकैः पर्यटनस्थलैश्च सह सम्बद्धाः भवन्तु। सः सर्वेभ्यः राज्येभ्यः स्वकीयानां श्रेष्ठपर्यटनस्थलानां प्रस्तावान् प्रेषयितुं आग्रहं कृतवान्। तेन उक्तं यत् प्रस्तावेषु उत्तमसुविधानां सह चतुःपार्श्वीयविकासस्य योजनाऽपि समाविष्टा भवेत्। यस्य राज्यस्य प्रस्तावः चयनितः भविष्यति, तस्य राज्यस्य पर्यटनस्थले आगामी राष्ट्रीयचलच्चित्रपुरस्कारसमारोहः आयोजयिष्यते।
केन्द्रीयमन्त्री उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी जी-विंशतिसम्मेलनस्य आयोजनं देशस्य विभिन्नेषु भागेषु राज्येषु च नीतवान्। तस्यैव चिन्तनस्य अन्तर्गतं राष्ट्रीयचलच्चित्रपुरस्कारान् अपि देशस्य विभिन्नेषु भागेषु नेतुं प्रयासः क्रियते। अनेन चलचित्रक्षेत्रस्य पर्यटनस्य च सम्बन्धः सुदृढः भविष्यति तथा सम्बन्धितपर्यटनस्थलाय अपि व्यापकः लाभः प्राप्स्यते।
---------------
Hindusthan Samachar / अंशु गुप्ता