Enter your Email Address to subscribe to our newsletters

नई दिल्ली, 22 सितंबरमासः (हि.स.)।
दिल्लीप्रदेशस्य मुख्यमन्त्री रेखा गुप्ता मङ्गलवासरे ‘सेवासङ्कल्पाभियानस्य’ अन्तर्गतं नजफगढविधानसभाक्षेत्रे २५ कोटिरूप्यकाणां व्ययेन क्रियमाणानां सप्त विकासकार्याणां शुभारम्भं कृतवती। एतदतिरिक्तं सप्तसु अनधिकृतवसतिक्षेत्रेषु ३३ कोटिरूप्यकाणां व्ययेन दश अन्यानि कार्याणि पूर्वमेव प्रचलन्ति। अस्मिन् अवसरे लोकनिर्माणविभागस्य मन्त्री प्रवेशसाहिबसिंहः, दिल्लीभारतीयजनतापार्टीस्य उपाध्यक्षः विजय सोलङ्की, विधायकः नीलमकृष्णपहलवानः, जिलाभारतीयजनतापार्टीस्य अध्यक्षः मुकेशमिश्रश्च उपस्थिताः आसन्।
मुख्यमन्त्री अवदत् यत् ५८ कोटिरूप्यकाणां व्ययेन क्रियमाणैः एतैः विकासकार्यैः नजफगढस्य वसतिक्षेत्रेषु मार्गाः अधिकं सुव्यवस्थिताः भविष्यन्ति, जलनिकासव्यवस्था सुदृढा भविष्यति तथा वर्षाकाले जलप्लावनादिसमस्याभ्यः जनाः राहतिं प्राप्स्यन्ति। उत्तमाभिः आधारभूतसुविधाभिः सह सहस्राणां परिवाराणां दैनन्दिनजीवनं अधिकं सुगमं भविष्यति।
मन्त्री प्रवेशसाहिबसिंहः अवदत् यत् दिल्ल्यां अस्माकं शासनस्य गठनानन्तरं नजफगढविधानसभाक्षेत्रे कुलतः ८४३ कोटिरूप्यकाणां विकासकार्याणि पूर्णानि अभवन् अथवा विभिन्नेषु चरणेषु प्रगतिपथे सन्ति। सः अवदत् यत् एतानि कार्याणि क्षेत्रस्य आधारभूतसुविधानां सुदृढीकरणस्य तथा नजफगढवासिनां दैनन्दिनजीवनं सुगमं कर्तुं दिशि महत्त्वपूर्णानि पदानि सन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani