मुख्यमन्त्री सायः अद्य तीज-मिलनकार्यक्रमे सम्मिलितः भविष्यति
रायपुरम्, २२ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः मङ्गलवासरे रायपुरे नव-रायपुरे च आयोज्यमानेषु विभिन्नेषु कार्यक्रमेषु सम्मिलितः भविष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री मध्याह्ने सार्धैकवादने सिविल-लाइन-स्थितात् मुख्यमन्त्रि
मुख्यमंत्री विष्णुदेव साय


रायपुरम्, २२ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः मङ्गलवासरे रायपुरे नव-रायपुरे च आयोज्यमानेषु विभिन्नेषु कार्यक्रमेषु सम्मिलितः भविष्यति।

निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री मध्याह्ने सार्धैकवादने सिविल-लाइन-स्थितात् मुख्यमन्त्रिनिवासात् प्रस्थास्यति। ततः मध्याह्ने सार्धद्विवादनतः सार्ध-त्रिवादनपर्यन्तं नव-रायपुरे आयोज्यमाने तीज-मिलनकार्यक्रमे सम्मिलितः भविष्यति।

कार्यक्रमस्य अनन्तरं मुख्यमन्त्री अपराह्णे चत्वारिंशदधिक-सार्धत्रिवादने मन्त्रालयं प्राप्स्यति। ततः सायं सार्धपञ्चवादने सिविल-लाइन-स्थितं मुख्यमन्त्रिनिवासं प्रत्यागमिष्यति। तत्रैव सायं षड्वादनतः सप्तवादनपर्यन्तं मुख्यमन्त्री साक्षात्कार-कार्यक्रमे भागं ग्रहीष्यति।

Hindusthan Samachar / Divya Ranjan