मुख्यमन्त्रिणा डॉ. यादवेन एशियाईक्रीडासु स्वर्णपदकविजयाय भारतीयमहिलाक्रिकेट्-दलं प्रति शुभकामनाः
भोपालम्, २२ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्रिणा डॉ. मोहन यादवेन एशियाईक्रीडा-२०२६ इत्यस्य महिलाक्रिकेट्-क्रीडायाः अन्तिमे क्रीडने श्रीलङ्कादलं पराजित्य स्वर्णपदकं विजितवत्यै भारतीयमहिलाक्रिकेट्-दलाय हार्दिक्य: शुभकामना: प्रदत्ताः।
मुख्यमंत्री डॉ. यादव ने भारतीय महिला क्रिकेट टीम को दी बधाई

भोपालम्, २२ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्रिणा डॉ. मोहन यादवेन एशियाईक्रीडा-२०२६ इत्यस्य महिलाक्रिकेट्-क्रीडायाः अन्तिमे क्रीडने श्रीलङ्कादलं पराजित्य स्वर्णपदकं विजितवत्यै भारतीयमहिलाक्रिकेट्-दलाय हार्दिक्य: शुभकामना: प्रदत्ताः।

मुख्यमन्त्रिणा डॉ. यादवेन मङ्गलवासरे सामाजिकमाध्यमस्य ‘एक्स’ इत्यस्य माध्यमेन उक्तं यत् एशियाईक्रीडा-२०२६ इत्यस्य महिलाक्रिकेट्-क्रीडायाः अन्तिमे क्रीडने श्रीलङ्कादलं पराजित्य स्वर्णपदकं विजितवती भारतीयमहिलाक्रिकेट्-दलं हार्दिकाभिनन्दनस्य शुभकामनानां च पात्रम् अस्ति। भारतीयमहिलाक्रिकेट्-दलस्य विजयेन पुनरेकवारं विश्वपटलस्य उपरि त्रिरङ्गस्य गौरवं वर्धितम् अस्ति। तेन उक्तं यत् भारतीयमहिलाक्रिकेट्-दलस्य एषा उपलब्धिः देशस्य सर्वासां पुत्रीणां युवा-क्रीडकाणां च कृते प्रेरणादायिनी अस्ति।

Hindusthan Samachar / Divya Ranjan