इतिहासस्य पृष्ठेषु २३ सेप्टेम्बरमासः - जम्मू-कश्मीरस्य आधिकारिकभाषासु हिन्दी, काश्मीरी, डोगरी च स्थानं प्राप्तवत्यः
इतिहासस्य पृष्ठेषु २३ सेप्टेम्बरस्य दिवसः जम्मू-कश्मीरस्य भाषाव्यवस्थायां महत्त्व-पूर्णपरिवर्तनस्य कृते स्मरणीयः अस्ति। वर्षे २०२० तमे अस्मिन् एव दिने भारतीयसंसदः जम्मू-कश्मीर-आधिका-रिकभाषा-विधेयकम्-२०२० इत्यस्य अनुमोदनं कृतवती आसीत्। अस्मिन् विधे
सांकेतिक।


इतिहासस्य पृष्ठेषु २३ सेप्टेम्बरस्य दिवसः जम्मू-कश्मीरस्य भाषाव्यवस्थायां महत्त्व-पूर्णपरिवर्तनस्य कृते स्मरणीयः अस्ति। वर्षे २०२० तमे अस्मिन् एव दिने भारतीयसंसदः जम्मू-कश्मीर-आधिका-रिकभाषा-विधेयकम्-२०२० इत्यस्य अनुमोदनं कृतवती आसीत्।

अस्मिन् विधेयके केन्द्रशासितप्रदेशस्य जम्मू-कश्मीरस्य आधिकारिकभाषारूपेण हिन्दी, आङ्ग्लभाषा, उर्दू, काश्मीरी तथा डोगरी इत्येतासां भाषाणां मान्यतां प्रदातुं प्रावधानं कृतम् आसीत्। अनेन जम्मू-कश्मीरस्य प्रशासनिक-सर्वकारीयकार्येषु भाषाणां क्षेत्रं विस्तर्तुं मार्गः प्रशस्तः अभवत्।विधेयकस्य माध्यमेन प्रथमवारं हिन्दी, काश्मीरी तथा डोगरी इत्येताः भाषाः जम्मू-कश्मीरस्य आधिकारिकभाषाव्यवस्थायां समावेशयितुं प्रावधानं कृतम्। अपरतः आङ्ग्लभाषा उर्दू च आधिकारिक-भाषारूपेण यथावत् स्थापिता।

अयं निर्णयः जम्मू-कश्मीरस्य भाषिक-सांस्कृतिक-विविधतां दृष्ट्वा महत्त्वपूर्णः मन्यते। क्षेत्रे विभिन्नभाषाभाषिणां जनानां कृते सर्वकारीयकार्येषु प्रशासनसम्बद्धासु प्रक्रियासु च स्वभाषाणां भूमिकायाः विस्तारस्य आशा उत्पन्ना।

महत्त्वपूर्णाः घटनाक्रमाः

१७३९ — रूसदेशस्य तुर्कियादेशस्य च मध्ये बेलग्रेड-शान्तिसन्धौ हस्ताक्षराणि अभवन्।१८०३ — ब्रिटिश-ईस्ट-इण्डिया-कम्पन्या असाये-युद्धे मराठासेनां पराजितवती।१८५७ — रूसी युद्धपोतः लेफर्टः फिनलैण्ड्-खातस्य भीषणवात्यायां लुप्तः अभवत्, ८२६ जनाः मृताः।१८७९ — रिचर्ड् रोड्सः इत्यनेन श्रवणे सहायकं प्रारम्भिकं यन्त्रं निर्मितम्, तस्य नाम ‘ऑडियोफोन’ इति कृतम्।१९२९ — बालविवाह-निरोधक-विधेयकम् अर्थात् शारदा-विधेयकं पारितम्।१९५५ — पाकिस्तानदेशेन बगदाद-सन्धौ हस्ताक्षराणि कृतानि।१९५८ — ब्रिटेनदेशेन क्रिस्मस-द्वीपे वायुमण्डलीय-आणविकपरीक्षणं कृतम्।१९६५ — भारत-पाकिस्तानयोः मध्ये युद्धविरामस्य आदेशः प्रदत्तः।१९७० — अब्दुल रजाकबिन हुसैनः मलेशियादेशस्य प्रधानमन्त्री अभवत्।१९७६ — सोयूज-२२ अन्तरिक्षयानं पृथिवीं प्रत्यागतम्।१९७९ — सोमालियादेशस्य संविधानस्य राष्ट्रपतिना अनुमोदनं कृतम्।१९८६ — अमेरिकीय-संसदया पाटलम् अमेरिकादेशस्य राष्ट्रपुष्परूपेण चितम्।१९९२ — यूगोस्लावियादेशः संयुक्तराष्ट्रसङ्घात् निष्कासितः।१९९५ — मिस्रदेशस्य ताबा-नगरे इस्रायल-देशस्य तथा फिलिस्तीन-मुक्ति-सङ्घटनस्य मध्ये पश्चिमतटे फिलिस्तीन-स्वशासनसम्बन्धी सन्धिः अभवत्।२००० — सिडनी-ओलम्पिक-क्रीडासु संयुक्तराज्य-अमेरिकादेशस्य धाविका मेरियनजोन्सः इत्यनया १०० मीटर धावनस्य स्वर्णपदकं प्राप्तम्।२००१ — ब्रिटिश-सैन्यस्य तालिबान-सैन्यस्य च मध्ये गुटिकाप्रहारः अभवत्। संयुक्तराज्य-अमेरिकादेशेन भारत-पाकिस्तानयोः उपरि आरोपिताः प्रतिबन्धाः अपसारिताः।२००२ — जर्मनीदेशस्य चान्सलरः गेरहार्डश्रोएडरः पुनः सत्तां प्राप्तवान्।२००३ — भूटानदेशे लोकतान्त्रिक-संविधानस्य प्रारूपं सज्जीकृतम्।२००४ — हैतीदेशे वात्यायाः अनन्तरम् आगते प्रलये न्यूनातिन्यूनं १,०७० जनाः मृताः।२००६ — पाकिस्तानस्य राष्ट्रपतिः परवेजमुशर्रफः भारतस्य प्रधानमन्त्रिणं डॉ. मनमोहनसिंहं वार्तायै आमन्त्रितवान्।२००९ — भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनेन भारतीय-उपग्रहः ओशनसैट्-२ इत्यनेन सह सप्त उपग्रहाः कक्षायां स्थापिताः।२०२० — भारतीयसंसदया जम्मू-कश्मीर-आधिकारिकभाषा-विधेयकम्-२०२० इत्यस्य अनुमोदनं कृतम्। अस्मिन् विधेयके हिन्दी, आङ्ग्लभाषा, उर्दू, काश्मीरी तथा डोगरी इत्येताभ्यः पञ्चभाषाभ्यः केन्द्रशासितप्रदेशस्य आधिकारिकभाषाणाम् अधिकारं प्रदातुं प्रावधानं कृतम्।

जन्म

१८६२ — श्रीनिवासशास्त्री — महान् देशभक्तः राजनेता च।१९०३ — यूसुफ् मेहरअली — स्वतन्त्रतासेनानी समाजसुधारकश्च।१९०८ — रामधारीसिंहः ‘दिनकरः’ — हिन्दी-जगतः सुप्रसिद्धः कविः।१९३५ — प्रेमचोपडा — हिन्दी-पञ्जाबी-चलच्चित्रयोः अभिनेता।१९५१ — पी. आर. कृष्णकुमारः — प्रसिद्धः भारतीयः आयुर्वेदाचार्यः।

निधनम्

१८६३ — रावतुलारामः — १८५७ तमस्य स्वतन्त्रतासङ्ग्रामस्य सेनानी।१९१८ — बदलूसिंहः — भारतीयसेनायाः २९ तमस्य लान्सर्स-रेजिमेण्ट इत्यस्य रिसालदारः आसीत्।१९३२ — प्रीतिलता वादेदारः — बङ्गालस्य राष्ट्रवादी क्रान्तिकारिणी आसीत्।१९६९ — सत्यनारायणशास्त्री — आधुनिक-आयुर्वेद-जगतः प्रख्यातः पण्डितः चिकित्साशास्त्रज्ञश्च।१९८३ — सर्वेश्वरदयालः सक्सेना — प्रसिद्धः कविः साहित्यकारश्च।१९९२ — के. वी. के. सुन्दरम् — भारतस्य द्वितीयः मुख्यनिर्वाचनायुक्तः आसीत्।२०२० — सुरेशः अंगडी — भारतीयजनतापक्षस्य राजनीतिज्ञः आसीत्।

महत्त्वपूर्णः अवसरः

हैफा-दिवसः।

Hindusthan Samachar / Divya Ranjan