Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २२ सेप्टेम्बरमासः (हि.स.)। दिल्लीविश्वविद्यालयस्य छात्रसङ्घस्य निर्वाचने अखिलभारतीयविद्यार्थिपरिषदः विजयस्य अनन्तरं नवनिर्वाचितैः पदाधिकारिभिः मङ्गलवासरे उत्तरपरिसरे स्थितस्य डूसू-सचिवालयस्य औपचारिकम् उद्घाटनं कृतम्।
नूतनकार्यकालस्य शुभारम्भः भारतीयपरम्परायाः मूल्यानां च अनुरूपं वैदिकमन्त्रघोषेण, विधिविधानपूर्वकं हवनपूजनेन च कृतः।
अस्मिन् अवसरे दिल्लीविश्वविद्यालयस्य विभिन्नमहाविद्यालयेभ्यः आगताः छात्राः छात्राश्च कार्यकर्तारश्च भागं गृहीतवन्तः। तेन सम्पूर्णः परिसरः ‘भारतमातायाः जयः’ तथा ‘वन्दे मातरम्’ इत्यादिभिः घोषैः प्रतिध्वनितः।
छात्रसङ्घस्य प्रतिनिधयः उक्तवन्तः यत् सांस्कृतिकमूलैः सह सम्बद्धः अयं शुभारम्भः सृजनात्मकस्य सकारात्मकस्य च छात्रराजकारणस्य दिशि नूतनं सोपानम् अस्ति।
अभाविप-दिल्ली इत्यस्य प्रदेशमन्त्री सार्थकशर्मा उक्तवान् यत् हवनपूजनं केवलम् औपचारिकता नास्ति, अपि तु ‘ज्ञानम्, शीलम्, एकता’ इति मूलमन्त्राधारितायाः अखिलभारतीयविद्यार्थीपरिषदः वैचारिकप्रतिबद्धतायाः प्रतीकम् अस्ति। सः उक्तवान् यत् यत्र कतिपयाः शक्तयः परिसरे नकारात्मकताम् अराजकतां च प्रसारयितुं प्रयतन्ते, तत्र अभाविप इत्यस्य छात्रनेतृत्वं भारतीयसंस्कृतेः मूल्यैः सह सकारात्मकपरिवर्तनम् आनेतुं प्रतिबद्धम् अस्ति।
डूसू-सङ्घस्य नवनिर्वाचितः अध्यक्षः यशडबासः छात्राणां जनादेशं महान्तं दायित्वम् उक्त्वा अवदत्— विश्वविद्यालयस्य छात्रैः अस्मासु यः विश्वासः प्रकटितः, तं वयं पूर्णनिष्ठया पालयिष्यामः। सत्यनिकेतनसहिते उत्तरपरिसरे दक्षिणपरिसरे च छात्राणां सुरक्षायाः तथा परिसराणां ‘सुरक्षापरीक्षणस्य’ व्यवस्था अस्माकं सर्वोच्चप्राथमिकता अस्ति। अस्य कृते विश्वविद्यालयप्रशासनात् शीघ्रमेव आवश्यकपदानि स्वीकर्तुं आग्रहः करिष्यते। डूसू पूर्णतया कार्यान्वयनाय सज्जम् अस्ति तथा सर्वाणि निर्वाचनसम्बद्धानि वचनानि व्यवहारतले स्थापयिष्यन्ते।
Hindusthan Samachar / Divya Ranjan