Enter your Email Address to subscribe to our newsletters

कोलकाता, २२ सेप्टेम्बरमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी मङ्गलवासरे प्रातः गुरुनानकदेवस्य ज्योतिज्योत्-दिवसे तस्मै श्रद्धाञ्जलिम् अर्पितवान्। सः सामाजिक-माध्यमे बङ्गलाभाषया सन्देशं विलिख्य गुरुनानकदेवं प्रणामं कृतवान्।
शुभेन्दु-अधिकारी लिखितवान्— “गुरुनानकदेवस्य तिरोधानदिवसे मम सादरं प्रणामाः।” सः गुरुनानकदेवस्य शिक्षाः स्मरन् शान्तेः, समानतायाः भ्रातृभावस्य च सन्देशस्य उल्लेखं कृतवान्। सहैव जनान् तेन प्रदर्शिते सेवायाः प्रेम्णश्च मार्गे चलितुं आह्वानं कृतवान्।
गुरुनानकदेवः सिक्खधर्मस्य प्रथमः गुरुः आसीत्। तस्य जन्म १४६९ तमे वर्षे रायभोयस्य तलवण्ड्यां, वर्तमानस्य पाकिस्तानदेशस्य ननकानासाहिबस्थले अभवत्। सः जाति-पाति-विभेदस्य उच्च-नीचताभावस्य च विरोधं कृत्वा ‘एक ओंकार’ इति सन्देशं प्रदत्तवान्। सर्वैः जनैः सह एकत्र उपविश्य भोजनकरणस्य परम्परा ‘लङ्गर’ इत्यस्य आरम्भः अपि गुरुनानकदेवस्य प्रमुखशिक्षासु अन्तर्भवति।
१५३९ तमे वर्षे करतारपुरसाहिबस्थले गुरुनानकदेवः ज्योतिज्योते विलीनः अभवत्।
Hindusthan Samachar / Divya Ranjan