उपराष्ट्रपतिः अद्य भारत-मण्डपं गत्वा नवमस्य भारत-अन्ताराष्ट्रिय-जल-सप्ताहस्य उद्घाटनं करिष्यति
नवदिल्ली, २२ सेप्टेम्बरमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णन् अद्य अत्र भारत-मण्डपम् इत्यत्र पञ्चदिवसीयस्य नवमस्य भारत-अन्ताराष्ट्रिय-जल-सप्ताहस्य उद्घाटनं करिष्यति। अयं वैश्विकः कार्यक्रमः जलवायुपरिवर्तनेन उत्पन्नानां समस्यानां मध्ये जलसु
सांकेतिक।


नवदिल्ली, २२ सेप्टेम्बरमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णन् अद्य अत्र भारत-मण्डपम् इत्यत्र पञ्चदिवसीयस्य नवमस्य भारत-अन्ताराष्ट्रिय-जल-सप्ताहस्य उद्घाटनं करिष्यति। अयं वैश्विकः कार्यक्रमः जलवायुपरिवर्तनेन उत्पन्नानां समस्यानां मध्ये जलसुरक्षां जलप्रबन्धनं च अधिकं सक्षमं कर्तुं केन्द्रितः अस्ति। अस्मिन् अवसरे जलवायु-अनुकूल-जलप्रबन्धनम्, जलसंसाधनानां स्थायि-उपयोगः, प्रौद्योगिकी, वित्तपोषणं सामुदायिकसहभागिता च इत्येतेषां माध्यमेन जलसुरक्षां सुदृढां कर्तुं विचारविमर्शः भविष्यति।

नवमस्य भारत-अन्ताराष्ट्रिय-जल-सप्ताहस्य आयोजनं केन्द्रीयजलशक्ति-मन्त्रालयस्य तत्वावधाने केन्द्रीय-मन्त्रालयानां, राज्यसर्वकाराणां, अन्ता-राष्ट्रिय-सङ्घटनानां, अनुसन्धान-शैक्षणिकसंस्थानां, उद्योगसङ्घटनानां, विकास-सहभागिनां, नागरिकसमाजस्य निजीक्षेत्रस्य च सहयोगेन क्रियमाणम् अस्ति। अस्मिन् अवसरे केन्द्रीयजल-शक्तिमन्त्रिणा सह अन्ये गणमान्याः जनाः उपस्थिताः भविष्यन्ति।

अस्मिन् वर्षे भारत-अन्ताराष्ट्रिय-जल-सप्ताहस्य विषयः ‘जलवायु-अनुकूल-जलप्रबन्धनम्’ इति निर्धारितः अस्ति। आयोजने नीतिनिर्मातारः, वैश्विकजल-क्षेत्रस्य विशेषज्ञाः, अनुसन्धानकर्तारः, जलप्रबन्धने संलग्नाः व्यावसायिकाः, उद्योगप्रतिनिधयः, नागरिकसमाजस्य प्रतिनिधयः, नवोद्यमाः युवानः च संवादाय अनुभवानां च आदान-प्रदानाय मञ्चं प्राप्स्यन्ति। नीदरलैण्ड्-जर्मनीदेशौ आयो-जनस्य सहभागिदेशौ स्तः। एताभ्यां सह भारतस्य चतुर्दश प्रदेशाः सहभागि-राज्यरूपेण भागं गृह्णन्ति। षट् केन्द्रीय-मन्त्रालयानि विभागाश्च सहभागि-मन्त्रालय-विभागरूपेण सम्मिलिताः सन्ति।

नवमस्य भारत-अन्ताराष्ट्रिय-जल-सप्ताहस्य अवधौ दश प्रमुखेषु मञ्चेषु चर्चा भविष्यति। तेषु मन्त्रिस्तरीयं पूर्णसत्रं, वैश्विकजलनेतॄणां पूर्णसत्रं, देशविशेष-मञ्चः, जलनेतॄणां मञ्चः, जलक्षेत्रस्य व्यावसायिकानां मञ्चः, विषयाधारितः मञ्चः, नवोद्यम-मञ्चः, युवा-मञ्चः, औद्योगिक-मञ्चः तथा विविधाः पार्श्वकार्यक्रमाः सम्मिलिताः सन्ति।

चर्चायै सप्त प्रमुखाः उपविषयाः निर्धारिताः सन्ति। तेषु समावेशिनः समानाश्च जल-शासनव्यवस्था, जलसंसाधनानां श्रेष्ठोप-योगाय सहयोगः, जलसुरक्षायै प्रौद्योगिक्याः समुदायस्य च भूमिका, जलसम्बद्धाः जलवायुसम्बद्धाश्च समस्याः, जलमूल-भूतसंरचनायै नवीनवित्तीय-प्रतिमानानां आधुनिकीकरणं च, स्थायि-जलसंसाधन-प्रबन्धनम् तथा जनानां पर्यावरणस्य च कृते जलम् इत्येते विषयाः सन्ति।

२२ सेप्टेम्बरतः २५ सेप्टेम्बरपर्यन्तं चतुर्दिवसीयम् अन्ताराष्ट्रिय-प्रदर्शनमपि आयोज्यते। अस्मिन् स्थायि-जलप्रबन्धने जलवायु-अनुकूल-जलप्रबन्धने च सम्बद्धानां नवीनानां प्रौद्योगिकीनां, उत्पादानां समाधानानां च प्रदर्शनं भविष्यति।

अस्मिन् अवधौ पेयजल-स्वच्छता-विभागस्य वतीर्या २२ सेप्टेम्बरतः २४ सेप्टेम्बरपर्यन्तं द्वितीयं अन्ताराष्ट्रियं जल-स्वच्छता-सम्मेलनम् अपि आयोज्यते। अस्मिन् पेयजलस्य उपलब्धता, स्वच्छतामूलभूतसंरचना, स्वच्छतासम्बद्धाः व्यवहाराः तथा जनस्वास्थ्यसम्बद्धाः विषयाः चर्चिताः भविष्यन्ति। सम्मेलने बृहद्-स्तरे कार्यान्वयितुं शक्यानां, न्यूनानां स्थायीनां च समाधानानां विषये विशेषं बलं दीयते। आयोजनस्य उद्देश्यं चर्चाः केवलं विचारविमर्शे एव सीमिताः न स्थापयित्वा ताः कार्यान्वयितुं शक्येषु विचारेषु, सहभागितासु तथा बृहद्-स्तरे स्वीकरणीयेषु समाधानेषु परिवर्तयितुम् अस्ति।

अस्य अन्तर्गतं नीतिः, वित्तम्, प्रौद्योगिकी तथा सामुदायिकसहभागिता इत्येतानि समन्वयेन संयोज्य जलसुरक्षां जलवायु-अनुकूलतां च सुदृढां कर्तुं बलं दीयते। समापनसत्रं २५ सेप्टेम्बरमासे भविष्यति। २६ सेप्टेम्बरमासे अध्ययनभ्रमणानि आयोजयिष्यन्ते।

भारत-अन्ताराष्ट्रिय-जल-सप्ताहः जलक्षेत्रे भारतस्य विश्वस्य च विभिन्नहित-धारकाणां मध्ये अनुभवसहभागकरणाय, नवीनप्रौद्योगिकीनां प्रस्तुतये तथा सहयोगवर्धनाय महत्त्वपूर्णमञ्चरूपेण विकसितः अस्ति।

Hindusthan Samachar / Divya Ranjan