लोकसभाध्यक्षः रक्षामन्त्री च डोलग्यारसः (जलझूलनीएकादश्याः) पर्वणः अवसरे देशवासिभ्यः शुभकामनाः प्रदत्तवन्तौ
नव दिल्ली, 22 सितम्बरमासः (हि.स.)। लोकसभाध्यक्षः ओमबिरला तथा रक्षामन्त्री राजनाथसिंहः समेताः अनेके नेतारः मङ्गलवासरे डोलग्यारसः (जलझूलनी एकादशी) इत्यस्य शुभावसरे समस्तदेशवासिभ्यः शुभकामनाः प्रदत्तवन्तः। ओमबिरला एक्स इत्यत्र लिखितवान्, “श्रीहरेः वि
प्रतीकात्मक


नव दिल्ली, 22 सितम्बरमासः (हि.स.)। लोकसभाध्यक्षः ओमबिरला तथा रक्षामन्त्री राजनाथसिंहः समेताः अनेके नेतारः मङ्गलवासरे डोलग्यारसः (जलझूलनी एकादशी) इत्यस्य शुभावसरे समस्तदेशवासिभ्यः शुभकामनाः प्रदत्तवन्तः।

ओमबिरला एक्स इत्यत्र लिखितवान्, “श्रीहरेः विष्णोः आराधनया सम्बद्धमिदं पर्व भक्तेः आध्यात्मिकचेतनायाश्च सुन्दरं प्रतीकम् अस्ति। राजस्थानसहिते देशस्य विभिन्नेषु प्रदेशेषु डोलग्यारसस्य परम्परा महता उत्साहेन श्रद्धाभावेन च आचर्यते, यत्र भक्तजनाः भगवतः विग्रहं सुसज्जिते डोले विराजमानं कृत्वा भजनकीर्तनैः स्तुतिभिश्च तस्य पूजनं कुर्वन्ति। प्रतिवर्षं ठाकुरजीविग्रहाणां वर्षायाः पवित्रेण जलेन स्नपनं, पूजनं दर्शनं च कृत्वा तेषां शोभायात्रां सोल्लासं निष्कासयितुम् आस्थायाः एषा परम्परा अद्वितीया अस्ति। श्रीहरिः सर्वेषां कल्याणं करोतु इति कामयामि।”

राजनाथसिंहः उक्तवान् यत् भगवान् श्रीविष्णुः श्रीकृष्णश्च, लोकश्रद्धा, अस्माकं समृद्धपरम्पराश्च सम्बद्धमिदं पर्व अस्माकं सर्वेषां जीवने सुखस्य शान्तेः समृद्धेश्च सञ्चारं करोतु।

---------------

Hindusthan Samachar / Dheeraj Maithani