Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 22 सितम्बरमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मुः मङ्गलवासरे देशवासिभ्यः ‘करमपूजा’याः बधाईशुभकामनाश्च प्रदत्तवती। राष्ट्रपतिः मुर्मुः एक्स इत्यत्र लिखितवती, “सर्वेभ्यः देशवासिभ्यः ‘करमपूजा’याः हार्दिक्यः बधाईशुभकामनाः। प्रकृतेः प्रति कृतज्ञता, कर्मणि निष्ठा भ्रातृभगिन्योः च प्रेमभावना च सम्बद्धं करमपर्व अस्माकं समृद्धजनजातीयसंस्कृतेः जीवनमूल्यानां च जीवन्तं स्वरूपम् अस्ति। इदं पर्व अस्मान् प्रकृतेः संरक्षणं कर्तुं सौहार्दभावेन कार्यं च कर्तुं प्रेरयति। मम कामना अस्ति यत् ‘करमपूजा’याः इदं पर्व सर्वेषां देशवासिनां जीवने सुखसमृद्ध्योः सञ्चारं करोतु।”
उल्लेखनीयं यत् ‘करमपूजा’ प्रकृत्या, कृष्या, भ्रातृभगिन्योः प्रेम्णा च सम्बद्धं प्रमुखं जनजातीयं लोकपर्व अस्ति। इदं पर्व मुख्यतया झारखण्डे, छत्तीसगढे, बिहारप्रदेशे, पश्चिमबङ्गाले ओडिशाप्रदेशे च आचर्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani