Enter your Email Address to subscribe to our newsletters

जम्मूः, 22 सितंबरमासः (हि.स.)।
उपराज्यपालः मनोजसिन्हा अद्य जम्मूविश्वविद्यालये नूतनानां सुविधानां उद्घाटनं कृतवान्। उद्घाटितासु सुविधासु आधुनिकक्रीडापरिसरः, लक्ष्यवेधनकेन्द्रम्, क्रिकेटक्रीडाङ्गणाय उच्चस्तम्भदीपप्रणाली, तवी-अतिथिगृहपरिसरश्च अन्तर्भवन्ति। एतासां सुविधानां निर्माणं प्रायः दशकोटिरूप्यकाणां व्ययेन कृतम् अस्ति।
उपराज्यपालः अवदत् यत् एताः सुविधाः विश्वविद्यालयस्य क्रीडकान्, विदुषः, आगन्तुकांश्च सशक्तान् करिष्यन्ति तथा केन्द्रशासितप्रदेशे उत्कृष्टताकेन्द्ररूपेण विश्वविद्यालयस्य भूमिकां सुदृढां करिष्यन्ति। कुलपतिं हितधारकांश्च अभिनन्दयन् उपराज्यपालः अवदत् यत् आधारभूतसंरचना महत्त्वपूर्णा अस्ति, किन्तु कस्यापि संस्थायाः वास्तविकः परिवर्तनः तत्र पोष्यमाणेषु मूल्येषु, विचारेषु, नवाचारेषु च निहितः भवति। सः श्रोतृभ्यः स्मारितवान् यत् प्रत्येकं संततिः परिवर्तनस्य अनुभवम् अवश्यं करोति, किन्तु कृत्रिमबुद्धिमत्तया सञ्चालिते वर्तमानयुगे परिवर्तनस्य तीव्रता अभूतपूर्वा अस्ति।
स्वकीयसम्बोधने उपराज्यपालः महत्त्वपूर्णं प्रश्नम् उत्थापितवान् यत् कृत्रिमबुद्धिमत्तायाः युगे शिक्षितस्य भवितुं किमर्थं भवति? विशेषज्ञाणां मतानां सन्दर्भं प्रदाय सः कृत्रिमबुद्धिमत्तायाः वर्धमानशक्तिविषये वैश्विकचिन्ताम् उज्जागरितवान्। सः चेतावनीम् अदात् यत् कृत्रिमबुद्धिमत्ता एका बहुआयामी प्रौद्योगिकी अस्ति, या स्वतन्त्रतया कार्यं कर्तुं शक्नोति तथा लाभप्रदान् हानिकारकांश्च परिणामान् जनयितुं शक्नोति। प्रौद्योगिक्याः मानवतायाः सेविका एव भवितव्यम् इति बलं दत्त्वा सः घोषितवान् यत् मानवीयगरिमां, आजीविकां, स्वास्थ्यं, स्वातन्त्र्यं च प्रभावितं कुर्वन्तः निर्णयाः सदैव उत्तरदायिभिः मनुष्यैरेव स्वीकरणीयाः, न तु यन्त्रैः।
सः अवदत् यत् यस्मिन् दिने प्रौद्योगिकी मानवतायाः स्वामिनी भविष्यति, तस्मिन् दिने अस्माकम् अस्तित्वमेव संकटे पतिष्यति। यन्त्राणि गणनां कर्तुं शक्नुवन्ति, किन्तु अनुभवं कर्तुं न शक्नुवन्ति। यन्त्राणि भविष्यवाणीं कर्तुं शक्नुवन्ति, किन्तु निर्णयानां दायित्वं वोढुं न शक्नुवन्ति। यन्त्राणि करुणायाः भाषायाः अनुकरणं कर्तुं शक्नुवन्ति, किन्तु अर्धरात्रौ कस्यचित् रोगिणः शय्यायाः समीपे स्थातुं न शक्नुवन्ति, न च न्यायाधीशस्य निर्णयस्य नैतिकं भारं वोढुं शक्नुवन्ति। मम स्पष्टं मतम् अस्ति यत् यः कश्चित् निर्णयः कस्यचित् व्यक्तेः स्वातन्त्र्यं, आजीविकां, स्वास्थ्यं, शिक्षां वा गरिमां गभीररूपेण प्रभावितं करोति, तस्य पृष्ठतः तादृशः मनुष्यः भवेत् यः निर्णयं सम्यग् अवगच्छति, तस्य दायित्वं स्वीकर्तुं शक्नोति तथा यस्य प्रति उत्तरदायित्वं निर्धारयितुं शक्यते।
उपराज्यपालः उच्चशिक्षायाः पुरतः स्थिताः पञ्च महत्त्वपूर्णाः आव्हानाः रेखाङ्कितवान्। सः अवदत् यत् प्रासङ्गिकतायाः विषये ध्यानं केन्द्रितं भवेत् तथा पाठ्यक्रमः परिवर्तनस्य गतिम् अनुसृत्य शीघ्रं अनुकूलनीयः भवेत्। सः अवदत् यत् रटनपद्धतेः परिहारः करणीयः तथा कक्षासु केवलं स्मरणस्य स्थाने प्रयोगस्य प्रयोजनस्य च विषये ध्यानं दातव्यम्। सः बलं दत्तवान् यत् छात्राः मौलिकानि उत्तराणि दद्युः, जिज्ञासायाः तर्कस्य च प्राथमिकता भवेत् तथा प्रौद्योगिकी ग्रामीणानां नगरीयाणां च शिक्षार्थिनां मध्ये अन्तरं न वर्धयेत्।
इदं सत्यम् अस्ति यत् कापि प्रौद्योगिकी शिक्षकस्य स्थानं ग्रहीतुं न शक्नोति। किन्तु इदमपि समानरूपेण सत्यं यत् प्रौद्योगिकी निश्चितरूपेण शिक्षकस्य भूमिकां परिवर्तयिष्यति। भविष्यस्य शिक्षकः केवलं सूचनाप्रदाता न भविष्यति, अपितु सः मार्गदर्शकः, गुरुः, प्रश्नकर्ता, प्रेरकव्यक्तित्वं च भविष्यति, यः छात्रेषु जिज्ञासां जनयिष्यति तथा तेषां चरित्रस्य निर्माणं करिष्यति।
छात्रेभ्यः शिक्षकेभ्यश्च उपराज्यपालः षड् मार्गदर्शकसन्देशान् प्रदत्तवान्। आजीवनशिक्षणं स्वीकरणीयम्, सृजनशीलता सहानुभूतिश्च इत्यादीनां विशिष्टमानवीयक्षमतानां विकासः करणीयः, विभिन्नविषयाणां मध्ये सेतवः निर्मातव्याः, राष्ट्रविकासे योगदानं दातव्यम्, शिक्षायाः क्रीडायाश्च मध्ये सन्तुलनं स्थापनीयम् तथा परम्पराभिः मूल्यैश्च सह सम्बद्धाः स्थातव्यम् इति सः उक्तवान्। सः छात्रान् विज्ञानस्य संस्कारस्य च उभयोः प्रतीकरूपेण भवितुम् आग्रहं कृतवान्।
उपराज्यपालः युवभ्यः महत्स्वप्नानि द्रष्टुं प्रोत्साहनं दत्तवान् तथा तेषाम् आकाङ्क्षाः समाजस्य राष्ट्रस्य च सेवया सह सम्बद्धाः भवेयुरिति उक्तवान्। सः तान् स्मारितवान् यत् ते कृत्रिमबुद्धिमत्तां सहचररूपेण प्राप्य वर्धमानायाः प्रथमायाः संततेः सदस्याः सन्ति तथा मानवता समृद्धिं प्राप्नुयात् इति यं भविष्यं निर्मातुं तेषाम् उत्तरदायित्वम् अस्ति। ईमानदारहस्तेषु शक्तिशालिनः उपकरणाः महानि कार्याणि कर्तुं शक्नुवन्ति, किन्तु दुष्टहस्तेषु त एव उपकरणाः गम्भीरां हानिं जनयितुं शक्नुवन्ति। सः अवदत् यत् कृत्रिमबुद्धिमत्तायाः युगे आधुनिकानि उपकरणानि यन्त्राणि च पूर्वापेक्षया अधिकशक्तिशालीनि अभवन्, अतः तेषां प्रयोगकर्तॄणां हस्तेषु अधिका दृढता, मूल्यबोधः, संस्काराः, बुद्धिमत्ता च भवितुम् अर्हन्ति।
उद्घाटनसमारोहे प्रो. उमेशरायः जम्मूविश्वविद्यालयस्य कुलपतिः, रमेशकुमारः जम्मू-सम्भागीयायुक्तः, तेजिन्दरसिंहः जम्मू-सूचनासर्वेक्षणाधिकारी, श्रीधरपाटिलः जम्मूकाश्मीरपुलिसस्य परिक्षेत्रीयः उपमहानिरीक्षकः, डॉ. राकेशमिन्हासः जम्मू-उपायुक्तः, प्रो. जे.पी.सिंहजुरेलः शैक्षणिककार्याणाम् अधिष्ठाता, प्रो. नीलूरोहमेट्रा अनुसन्धानाध्ययनस्य अधिष्ठाता, प्रो. संगीता गुप्ता योजनाविकासयोः अधिष्ठाता, डॉ. नीरजशर्मा कुलसचिवः, विभागाध्यक्षाः, संकायसदस्याः छात्राश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani