मध्यप्रदेशस्य पञ्चदिवसीयः भोपाल-विज्ञानमेलापकः अद्यतः बरकतुल्लाह-विश्वविद्यालये
इसरो, सीएसआईआर, आईआईटी इत्यादीनां ५३ वैज्ञानिकसंस्थानां सहभागिता भोपालः, २२ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य विद्यार्थिषु वैज्ञानिक-चिन्तनस्य, नवाचारस्य, समस्यासमाधान-क्षमतायाश्च विकासस्य उद्देश्येन पञ्च-दिवसीयः भोपाल-विज्ञानमेला-२०२६ अद्य मङ
भोपाल विज्ञान मेला 22 से 26 सितंबर


इसरो, सीएसआईआर, आईआईटी इत्यादीनां ५३ वैज्ञानिकसंस्थानां सहभागिता

भोपालः, २२ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य विद्यार्थिषु वैज्ञानिक-चिन्तनस्य, नवाचारस्य, समस्यासमाधान-क्षमतायाश्च विकासस्य उद्देश्येन पञ्च-दिवसीयः भोपाल-विज्ञानमेला-२०२६ अद्य मङ्गलवासरात् भोपालस्य बरकतुल्लाह-विश्वविद्यालय-परिसरे प्रारभ्यमाणः अस्ति।

विज्ञानभारती-मध्यभारतप्रान्तस्य, मध्यप्रदेशविज्ञान-प्रौद्योगिकीपरिषदः, बरकतुल्लाह-विश्वविद्यालयस्य च संयुक्त-तत्त्वावधाने आयोजिते अस्मिन् मेले अस्मिन् वर्षे विद्यार्थिभ्यः केवलं वैज्ञानिक-प्रतिमानानां प्रदर्शनस्य स्थाने समाजस्य वास्तविकसमस्यानां तकनीकी-व्यावहारिकसमाधानानि विकसितुं अवसरः प्रदास्यते।

‘नवाचारसङ्गमे’ शताधिकाः परियोजनाः प्रदर्शिताः भविष्यन्ति

मध्यप्रदेशविज्ञान-प्रौद्योगिकीपरिषदः निदेशकः अनिलकोठारी अवदत् यत् मेलस्य विशेषोपक्रमस्य ‘नवाचार-सङ्गमस्य’ अन्तर्गतं विद्यार्थिभिः निर्मिताः शताधिकाः नवाचारपरियोजनाः प्रदर्शिताः भविष्यन्ति। विद्यार्थिभिः कृषेः, सस्य-संरक्षणस्य, कृषि-उत्पादानां विपणनस्य, हस्तचालितवाहन-सञ्चा-लनस्य, श्रमिक-सुरक्षायाः, चिकित्सायाः स्वास्थ्यस्य, अपशिष्टप्रबन्धनस्य, ऊर्जा-याश्च क्षेत्रेषु विद्यमानानां वास्तविक-समस्यानाम् आधारेण समाधानानि विकसितानि सन्ति।

अस्योपक्रमस्य माध्यमेन विद्यार्थिनः समस्यायाः परिचयात् तस्याः विश्लेषण-पर्यन्तं, प्रयोगात् प्रतिमान-निर्माणपर्यन्तं, व्यावहारिकसमाधान-विकासपर्यन्तं प्रक्रियया सह सम्बद्धाः कृताः सन्ति। विद्यार्थिनः सम्बन्धित-समस्यानां सम्यगवगमनाय कृषकैः, श्रमिकैः, यान्त्रिकैः, तकनीकिविशेषज्ञैश्च सह संवादं कर्तुं प्रेरिताः सन्ति।

इसरो, सीएसआईआर, आईआईटी इत्यादिभिः ५३ वैज्ञानिकसंस्थाभिः सहभागिता

सः अवदत् यत् मेलापकस्य ‘महाप्रदर्शने’ देशस्य प्रमुखाः वैज्ञानिकाः तकनीकी-संस्थाश्च स्वकीयान् अनु-सन्धानकार्यक्रमान् तकनीकी उपलब्धीश्च प्रदर्शयिष्यन्ति। आयोजने इसरो, आईआईटी, आईआईएसईआर, सीएस-आईआर, मध्यप्रदेशविज्ञान-प्रौद्योगिकी-परिषद्, राजा रमन्ना प्रगतप्रौद्योगिकी-केंद्रम्, एनटीपीसी, सीआईएल, गेल् इत्यादीनां प्रायः ५३ वैज्ञानिकसंस्थानां, उद्योगानां, सङ्गठनानां च सहभागिता प्रस्ताविता अस्ति।

महाप्रदर्शनस्य माध्यमेन विद्यार्थिभ्यः सामान्यनागरिकेभ्यश्च देशे प्रचलद्भिः वैज्ञानिकानुसन्धानैः तकनीकीविकासैश्च प्रत्यक्षरूपेण परिचितुं अवसरः प्राप्स्यते। मैपकॉस्ट्-संस्थया ‘ग्रामीणप्रौद्योगिकी-प्रकोष्ठे’ विभिन्नेषां शिल्पकाराणाम्, नवाचारकाणां, स्वयंसेवीसंस्थानां च कार्याणि पञ्च-चत्वारिंशत् प्रदर्शनकक्षैः प्रदर्शितानि भविष्यन्ति।

विद्यार्थिनः वैज्ञानिकैः विशेषज्ञैश्च प्रत्यक्षं संवादं करिष्यन्ति

भोपाल-विज्ञानमेले ‘प्रत्यक्षसंवादः’ इति कार्यक्रमः आयोजितः भविष्यति। अस्मिन् कार्यक्रमे विद्यार्थिनः वैज्ञानिकैः विशेषज्ञैश्च प्रत्यक्षं संवादं कृत्वा विज्ञानस्य, अनुसन्धानस्य, प्रौद्योगिक्याः, वैज्ञानिकजीवनवृत्तेः च सम्बन्धितान् प्रश्नान् पृच्छितुं शक्नुवन्ति। तदनन्तरं ‘मेलादर्शनम्’ इत्यस्य अन्तर्गतं विभिन्नविद्यालयानां विद्यार्थिनः विज्ञान-मेलापकस्य भ्रमणं करिष्यन्ति। ते वैज्ञानिकसंस्थानां प्रदर्शनानि, नवाचार-परियोजनाः, तकनीकी-प्रतिमानानि च प्रत्यक्षं द्रष्टुं शक्नुवन्ति।

उद्घाटनसत्रे देशस्य ख्याताः वैज्ञानिकाः वास्तुविदश्च सम्मिलिताः भविष्यन्तिउद्घाटनसत्रे सीएसआईआर-संस्थायाः पूर्वमहानिदेशकः विज्ञानभारत्याः अखिल-भारतीयाध्यक्षश्च डॉ. शेखरमाण्डे तथा राममन्दिरस्य वास्तुविदः सोमपुरा-परिवारस्य आशीषसोमपुरा इत्यादयः गणमान्यजनाः उपस्थिताः भविष्यन्ति। अस्मिन्नेव अवसरे वरिष्ठवास्तुविदः पद्मश्री चन्द्रकान्तः बी. सोमपुरा च ‘विज्ञानप्रतिभासम्मान-२०२६’ इत्यनेन सम्मानितः भविष्यति।

Hindusthan Samachar / Divya Ranjan