चक्रधरसमारोहस्य नवम्यां सन्ध्यायां कत्थक्कलिः, ओडिशीनृत्यं, लोकसङ्गीतं सूफीगायनं च भविष्यति
रायगढम्, २२ सेप्टेम्बरमासः (हि.स.)। चक्रधरसमारोहस्य नवमी सन्ध्या मङ्गलवासरे स्वर-ताल-नृत्यस्य विविधाभिः प्रस्तुतिभिः सुसज्जिता भविष्यति। सायं चतुर्वादनात् रात्रौ ११:३० वादनपर्यन्तम् आयोजिते कार्यक्रमे १३ प्रस्तुतयः भविष्यन्ति, येषु ७४ कलाकाराः स्वक
चक्रधर समारोह की नौवीं रात्रि


रायगढम्, २२ सेप्टेम्बरमासः (हि.स.)। चक्रधरसमारोहस्य नवमी सन्ध्या मङ्गलवासरे स्वर-ताल-नृत्यस्य विविधाभिः प्रस्तुतिभिः सुसज्जिता भविष्यति। सायं चतुर्वादनात् रात्रौ ११:३० वादनपर्यन्तम् आयोजिते कार्यक्रमे १३ प्रस्तुतयः भविष्यन्ति, येषु ७४ कलाकाराः स्वकलां प्रदर्शयिष्यन्ति। समारोहस्य अन्तर्गते कथकनृत्यं, भरतनाट्यम्, ओडिशीनृत्यं, तबलावादनम्, छत्तीसगढी-लोकसङ्गीतम्, कथकलिः, सितारवादनं सूफीगायनं च प्रस्तुतानि भविष्यन्ति।

समारोहस्य आरम्भः रायगढस्य जिज्ञासा दुबे इत्यस्याः कथकनृत्यप्रस्तुत्या भविष्यति। ततः सारंगढस्य शर्वी केशरवानी तथा रायपुरस्य आशिका सिंघल कथकनृत्यं प्रस्तुतं करिष्यतः। रायगढस्य मनीषचन्द्रवंशी तबलावादनं करिष्यति। रायपुरस्य वेदिका सोनी भरतनाट्यस्य तथा रायगढस्य अरण्यागोयल: कत्थक-नृत्यस्य प्रस्तुतिं करिष्यतः।

सायंकालीनसत्रे बिलासपुरस्य आञ्चल-पाण्डे ओडिसीनृत्यं प्रस्तुतं करिष्यति। ततः रायगढस्य नव्यायादवः आर्या पाठकश्च अर्धशास्त्रीयनृत्यस्य प्रस्तुतिं करिष्यतः। सारंगढस्य अन्ताराष्ट्रिय-ओडिशी-नृत्याङ्गनायाः दीक्षा रथस्य विशेषप्रस्तुतिः भविष्यति। अपरत्र बालोदस्य प्रसिद्धः लोककलाकारः लहरगङ्गा पुरानिकसाहूः स्वस्य ३५-सदस्यीयेन दलेन सह छत्तीसगढीलोकसङ्गीतस्य प्रस्तुतिं करिष्यति।

रात्रिसत्रे केरलतः आगतः गुरुः कोट्टिक्कल् नन्दकुमारन् नायरः स्वस्य ८-सदस्यीयेन दलेन सह पारम्परिकं कत्थक्कलिनृत्यं प्रस्तुतं करिष्यति। ततः खैरागढस्य प्रो. डॉ. लवली शर्मा सितारवादनं करिष्यति। समारोहस्य समापनं रायगढस्य राकेशशर्मणा तस्य २०-सदस्यीयेन दलेन च प्रस्तुतस्य सूफीगायनेन भविष्यति।

Hindusthan Samachar / Divya Ranjan