Enter your Email Address to subscribe to our newsletters

– २३ तः २८ सेप्टेम्बरपर्यन्तं लखनऊस्थे के.डी. सिंह-बाबू-क्रीडाङ्गणे भविष्यति स्पर्धा
मुरादाबादम्, २२ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशे महिलाक्रिकेट्-क्रीडाप्रतिभाभ्यः प्रतिस्पर्धात्मकं मञ्चं प्रदातुं प्रथमवारम् आयोज्यमाने लखनऊ-विमेन्स-प्रीमियर-लीग इत्यत्र मुरादाबादस्य द्वे क्रिकेट्-क्रीडिके चयनिते स्तः। निशिकश्यपः मनीषाचौधरी च लखनऊ-नवाबी-क्वीन्सदले स्थानं प्राप्तवत्यौ स्तः।
डिस्ट्रिक्ट्-स्पोर्ट्स-असोसिएशन-मुरादाबादस्य सचिवः पूर्वः रणजी-क्रीडकश्च विजयगुप्तः अधिवक्ता मङ्गलवासरे अवदत् यत् लखनऊ-विमेन्स-प्रीमियर-लीग इति स्पर्धा प्रथमवारम् आयोज्यते। सः अवदत् यत् षड्दलानां मध्ये आयोज्य-मानस्य टी-२०-लीग इत्यस्य प्रारम्भः २३ सेप्टेम्बरमासे भविष्यति, अन्तिमस्पर्धा च २८ सेप्टेम्बरमासे लखनऊस्थे के.डी. सिंह-बाबू-क्रीडाङ्गणे भविष्यति।
निशिकश्यपः विकेटरक्षिका अस्ति। सा अण्डर-१९ तथा वरिष्ठवर्गयोः राष्ट्रियस्तरे स्वप्रतिभां प्रदर्शितवती अस्ति। विकेट इत्यस्य पृष्ठतः दायित्वं निर्वहन्त्या दलस्य सामर्थ्यं वर्धयन्त्या निशिकश्यपात् लीग-स्पर्धायां उत्कृष्टप्रदर्शनस्य अपेक्षा अस्ति।अपरतः मनीषाचौधरी दक्षिणहस्तीय-शीघ्रगामिनी कन्दूकक्षेपिका सर्वतोमुखी क्रीडिका च अस्ति। कन्दूकक्षेपकेण सह बल्लेबाजी इति रूपेण योगदानं दातुं समर्थां मनीषां नवाबी-क्वीन्स-दलेन स्वदले सम्मिलिता अस्ति।
Hindusthan Samachar / Divya Ranjan