उत्तरप्रदेशे भाजपापक्षेण २०२७ तमे वर्षे प्रचण्डबहुमतयुक्तं सर्वकारं निर्मीयते - नितिननवीनः
सहारनपुरम्, २२ सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः मङ्गलवासरे स्वस्य द्विदिवसीयस्य उत्तरप्रदेशप्रवासस्य द्वितीय-दिने सहारनपुरे अनेकासु सभासु भागं गृहीतवान्। सः पक्षस्य पदाधिकारिभ्यः कार्यकर्तृभ्यश्च विजयस्य सूत्रं
बैठक में दीप प्रज्ज्वलित करते भाजपा अध्यक्ष नितिन नवीन


मंच पर भाजपा अध्यक्ष नितिन नवीन,प्रदेश अध्यक्ष पंकज चौधरी व धर्मपाल सिंह


सहारनपुरम्, २२ सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः मङ्गलवासरे स्वस्य द्विदिवसीयस्य उत्तरप्रदेशप्रवासस्य द्वितीय-दिने सहारनपुरे अनेकासु सभासु भागं गृहीतवान्। सः पक्षस्य पदाधिकारिभ्यः कार्यकर्तृभ्यश्च विजयस्य सूत्रं प्रदत्तवान् तथा सहारनपुरे सन्तरविदासमन्दिरे पूजार्चनां कृतवान्।

सहारनपुरे पक्षपदाधिकारिणः सम्बोधयन् नितिननवीनः अवदत् यत् उत्तरप्रदेशे २०२७ तमे वर्षे भारतीयजनतापक्षस्य पुनः प्रचण्डबहुमतयुक्तः सर्वकारः भविष्यति। कार्यकर्तृषु यः उत्साहः दृश्यते तथा उत्तरप्रदेशे पुनः भाजपासर्वकारस्य निर्माणाय यः दृढसङ्कल्पः सर्वत्र दृश्यते, तेन अहं पूर्णतया विश्वसिमि यत् भाजपा स्वस्य ‘मिशन २०२७’ इति लक्ष्यं सफलतया प्राप्स्यति।

भाजपाध्यक्षः अवदत् यत् अद्यतनः उत्तरप्रदेशः स्वस्य विकासाय, द्रुतमार्गैः प्रगतौ च नूतनानां कीर्तिमानां कृते प्रसिद्धः अस्ति। अत्र ब्रह्मोस इत्यादीनि क्षेपणास्त्राणि निर्मीयन्ते। एषा एव नूतनस्य उत्तरप्रदेशस्य परिचयः अस्ति, यः प्रत्येकं पक्षकार्यकर्तुः नागरिकस्य च कृते गौरवस्य विषयः अस्ति। वयं सर्वे मिलित्वा उत्तरप्रदेशं ‘उत्तमप्रदेशं’ कर्तुं दिशि अग्रे गच्छामः।

नितिननवीनः अवदत् यत् अद्य पक्षः यस्मिन् स्थाने प्राप्तवान् अस्ति, तत् पूर्वकार्यकर्तॄणां चत्वारिंशत्-पञ्च-चत्वारिंशत् वर्षाणां कठिनपरिश्रमस्य परिणामः अस्ति। प्रधानमन्त्रिणः नरेन्द्र-मोदिनः नेतृत्वे २०४७ तमवर्षपर्यन्तं ‘विकसितभारतस्य’ सङ्कल्पं केवलं भारतीयजनतापक्षः एव पूर्णं कर्तुं शक्नोति, समाजवादीपक्षः अथवा काँग्रेसपक्षः न। सः अग्रिमकार्यक्रमाणां रूपरेखां प्रस्तूय सरलतायाः, सहजतायाः जनसंवादस्य च विषये विशेषं ध्यानं दातुं निर्देशान् दत्तवान्। सः अवदत् यत् विधानसभास्तरे सांसदैः, विधायकैः सक्रियसदस्यैश्च सह शक्तिकेन्द्रेषु ‘पॉकेटमीटिङ्ग्’ अर्थात् जनताचौपालाः आयोजयिष्यन्ते। सः कार्यकर्तृभ्यः भाजपाजनप्रतिनिधिभ्यः पक्षपदाधिकारिभ्यश्च निर्देशं दत्तवान् यत् अस्माभिः प्रत्येकं ग्रामं प्रत्येकं गृहं च गन्तव्यम्, सामान्यजनानां समस्याः दूरी-कर्तव्याः तथा तान् द्विइञ्जिन-सर्वकारस्य योजनाभिः सम्बद्धान् कर्तव्यम्।

सहारनपुरप्राप्तौ भव्यः स्वागतसमारोहःसहारनपुरं प्राप्ते पक्षकार्यकर्तृभिः स्थानीयजनैश्च मुजफ्फरनगरे, देवबन्दे सहारनपुरे च अनेकस्थानेषु शङ्खध्वनिना पुष्पवृष्ट्या च भाजपाध्यक्षस्य स्वागतं कृतम्। भाजपाध्यक्षः विभिन्नासु सभासु क्रमेण विधानसभाक्षेत्रानुसारं पक्षस्य सङ्गठनस्य अग्रिमनिर्वाचनस्य च स्थितिविषये प्रतिवेदनं प्राप्तवान्। सङ्गठनस्य गतिविधीन् अधिकं सक्रियाः कर्तुं तथा द्विइञ्जिन-सर्वकारस्य योजनानां शतप्रतिशतं लाभं पात्र-लाभार्थिभ्यः प्राप्तुं समन्वयस्य विषये अपि बलं दत्तम्। सः सहारनपुरे पक्षस्य स्थानीयसांसदैः, विधायकैः प्रमुख-पदाधिकारिभिश्च सह महत्त्वपूर्णाः सभाः कृतवान्। सः धरातलीयकार्यकर्तृभिः सह संवादं कृत्वा आगामीराजनैतिक-रणनीतीनां विषये चर्चां कृतवान्।

दलितकार्यकर्तुः गृहे भोजनम्

भाजपाराष्ट्रियाध्यक्षः सहारनपुरे सन्त-शिरोमणिगुरुरविदासस्य मन्दिरे पूजार्चनां कृत्वा ततः दलितसमाजस्य एकस्य कार्यकर्तुः गृहे भोजनं कृतवान्। दलित-समाजस्य जनैः तस्मै रविदासमहाराजस्य प्रतिमा पुस्तकं च उपहाररूपेण प्रदत्तम्।

अस्मिन् अवसरे माध्यमप्रतिनिधिभिः सह वार्तालापं कुर्वन् नितिननवीनः अवदत् यत् सन्तरविदासस्य आदर्शानाम् अनुसरणं कुर्वन्तः समाजस्य अन्तिमसोपाने स्थितं प्रत्येकं जनं सम्मानयितुं मुख्यधारया सह सम्बद्धं कर्तुं च यः सङ्कल्पः वयं स्वीकृतवन्तः, तं द्विइञ्जिन-सर्वकारे वयं पूर्णं कुर्मः। सः अवदत् यत् सम्प्रति वयं सम्पूर्णे देशे सन्तरविदासस्य षट्शततम-जन्मजयन्त्याः वर्षम् आचरामः। वयं सर्वान् समाजान् पूर्णतया संयोज्य, समरसतायाः भावेन प्रत्येकं जनं प्रत्येकं समाजं प्रत्येकं क्षेत्रस्य जनांश्च सह नीत्वा अग्रे गच्छामः। विकसितस्य उत्तरप्रदेशस्य दिशि प्रदेशः निरन्तरं विकासं करोति तथा स्वकीयां परम्परामपि अग्रे नयति।

कार्यक्रमेषु विभिन्नासु सभासु च तेन सह मुख्यमन्त्री योगी आदित्यनाथः, प्रदेश-भाजपाध्यक्षः पङ्कजचौधरी, प्रदेश-महामन्त्री (सङ्गठनम्) धर्मपाल-सिंहः, राष्ट्रियमन्त्री प्रदेशसहप्रभारी च जगदीशपटेलः, राष्ट्रियमन्त्री भोलासिंहः, प्रदेशमहामन्त्री रामप्रतापसिंहः तथा क्षेत्रीयाध्यक्षः नवाबसिंहनागरः अपि उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan