Enter your Email Address to subscribe to our newsletters


सहारनपुरम्,22 सितम्बरमासः (हि.स.)। भारतीयजनतादलस्य (भाजपायाः) राष्ट्रियाध्यक्षः नितिननवीनः मङ्गलवासरे मार्गेण एकदिवसीययात्रायै सहारनपुरं प्राप्तवान्। सहारनपुरं प्राप्ते सति नगरस्य जनपथमागे पक्षस्य नेतृभिः कार्यकर्तृभिश्च तस्य स्वागतं कृतम्।
राष्ट्रियाध्यक्षस्य नितिननवीनस्य देवबन्देऽपि भाजपाकार्यकर्तृभिः भव्यं स्वागतं कृतम्। तद् पूर्वं मेरठनगरात् सहारनपुरं गच्छन् सः मुजफ्फरनगरसहितेषु विभिन्नेषु स्थानेषु भाजपानेतृभिः कार्यकर्तृभिश्च स्वागतं प्राप्तवान्।
सः पश्चिमक्षेत्रस्य पूर्वसांसदैः पूर्वविधायकैश्च सह संवादं करिष्यति। ततः प्रदेशीयैः क्षेत्रीयैश्च पदाधिकारिभिः, जिलाध्यक्षैः, जिलाप्रभारिभिः तथा जिलामहामन्त्रिभिः सह सभां कृत्वा निर्वाचनरणनीतेः विषये विचारविमर्शं करिष्यति।
भाजपाध्यक्षः नितिननवीनः सहारनपुरस्थे मां शाकुम्भरीदेवीमन्दिरे दर्शनपूजनमपि करिष्यति। राष्ट्रियाध्यक्षः भाजपायाः एकस्य कार्यकर्तुः गृहे भोजनमपि करिष्यति।
अस्मिन् अवसरे भाजपाध्यक्षेन नितिननवीनस्य सह सहारनपुरे प्रदेशाध्यक्षः पङ्कजचौधरी तथा प्रदेशमहामन्त्रीसङ्गठनस्य धर्मपालसिंहः अपि उपस्थितौ भविष्यतः।
Hindusthan Samachar / Dheeraj Maithani