प्रधानमन्त्रिणा मोदिना एशियाईक्रीडासु कांस्यपदकविजयाय सुचिका तरियालायौ प्रदत्ता: शुभकामना:
नवदिल्ली, २२ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे एशियाईक्रीडासु मिश्रित-मार्शल-कलायां भारतस्य कृते प्रथमं कांस्यपदकं विजित्य इतिहासं रचितवत्यै सुचिका तरियालायै शुभकामना: प्रदत्ताः। प्रधानमन्त्रिणा सामाजिकमाध्यमस्य ‘एक
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदिल्ली, २२ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे एशियाईक्रीडासु मिश्रित-मार्शल-कलायां भारतस्य कृते प्रथमं कांस्यपदकं विजित्य इतिहासं रचितवत्यै सुचिका तरियालायै शुभकामना: प्रदत्ताः।

प्रधानमन्त्रिणा सामाजिकमाध्यमस्य ‘एक्स’ इत्यत्र उक्तं यत् एषा भारतस्य कृते ऐतिहासिकी उपलब्धिः अस्ति। मिश्रित-मार्शल-कलायां देशस्य प्रथमं एशियाई-क्रीडापदकं प्राप्तवत्यै सुचिका तरियालायै अभिनन्दनं कृत्वा प्रधानमन्त्रिणा उक्तं यत् तस्याः उपलब्धिः तस्याः समर्पणं उत्साहं च प्रतिबिम्बयति। प्रधानमन्त्रिणा सुचिकायाः भविष्ये अधिकसफलताः प्राप्तुं शुभकामना अपि प्रदत्ता।

सुचिका तरियालया एशियाईक्रीडासु कांस्यपदकं विजित्य मिश्रित-मार्शल-कलायां भारतस्य कृते प्रथमं पदकं प्राप्तम्।

Hindusthan Samachar / Divya Ranjan