प्रधानमन्त्री मोदी सुभाषिते मनुष्यस्य सुखस्य मङ्गलस्य च कामनाम् अकरोत्
नवदिल्ली, २२ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः लोकप्रिय-अन्तर्जाल-सामाजिकमाध्यमे सूक्ष्मसन्देश-प्रेषण-मञ्चे च ‘एक्स’ इत्यत्र पूर्ववत् सुभाषितरूपेण एकं श्लोकं प्रकाशितवान्। अनेन श्लोकेन सः मनुष्यस्य सुखस्य मङ्गलस्य च काम
प्रधानमंत्री नरेन्द्र मोदी की एक्स पोस्ट।


नवदिल्ली, २२ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः लोकप्रिय-अन्तर्जाल-सामाजिकमाध्यमे सूक्ष्मसन्देश-प्रेषण-मञ्चे च ‘एक्स’ इत्यत्र पूर्ववत् सुभाषितरूपेण एकं श्लोकं प्रकाशितवान्। अनेन श्लोकेन सः मनुष्यस्य सुखस्य मङ्गलस्य च कामनाम् अकरोत्।प्रधानमन्त्रिणः मोदी-महोदयस्य सुभाषि-तस्य अयं श्लोकः

सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम्। दैवीं नावं स्वरित्रामनागसोऽस्रवन्तीमा रुहेमा स्वस्तये॥

इति अथर्ववेदस्य सप्तमे काण्डे षष्ठे सूक्ते तृतीये मन्त्रे च प्राप्यते।

अस्य श्लोकस्य अर्थः अस्ति— मनुष्याः उत्तमसंरक्षणकर्त्रीं स्थिरां पृथिवीं तथा कल्याणकारिणम् अबाधितं च आकाशरूपम् आधारम् आश्रयन्ताम्। पापरहिताः भूत्वा शुभमार्गेण नयन्त्याः उत्तमचप्पूसहितं दिव्यनौकाम् इव कल्याणकारिणां साधनानाम् आश्रयं गृहीत्वा सुखं मङ्गलं च प्राप्नुयुः।

Hindusthan Samachar / Divya Ranjan