Enter your Email Address to subscribe to our newsletters

न्यूयॉर्क, २२ सेप्टेम्बरमासः (हि.स.)। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्डट्रम्पः मङ्गलवासरे संयुक्तराष्ट्रमहासभायां स्वकीयस्य सम्बोधनस्य प्रारम्भे अमेरिकादेशस्य आन्तरिकोपलब्धीनां उल्लेखं कृतवान्। ततः सः ईरान, यूक्रेन, वेनेजुएला, क्यूबा, ग्रीनलैण्ड्, नाटो तथा कृत्रिमबुद्धिमत्ता इत्यादीनां विषयेषु स्वसर्वकारस्य पक्षं प्रस्तुतवान्।
ट्रम्पः आप्रवासननीतेः उल्लेखं कुर्वन् अवदत् यत् अमेरिकादेशस्य दक्षिणसीमा पूर्वापेक्षया अधिकसुरक्षिता कृता अस्ति। सः करकपातस्य, शेयरविपण्यस्य अपराध-सम्बद्धानां च विवरणानां स्वसर्वकारस्य कार्यवृत्तस्य भागरूपेण उल्लेखं कृतवान्।
ईरानदेशस्य विषये ट्रम्पः अस्मिन् वर्षे प्रारब्धस्य अमेरिकीसैन्याभियानस्य समर्थनं कृतवान्। सः अवदत् यत् अमेरिकादेशेन ईरानदेशं परमाण्वस्त्रं प्राप्तुं निवारयितुं कार्यवाही कृता। ट्रम्पः तेहरानाय सन्धेः विकल्पं प्रदाय सञ्चेतनाम् अयच्छत् यत् यदि सन्धिः न भवति तर्हि अमेरिकादेशः कठोरां सैन्यकार्यवाहीं कर्तुं शक्नोति।
यूक्रेनयुद्धस्य विषये सः अवदत् यत् रूसदेशस्य यूक्रेनस्य च नेतृभिः सह मिलित्वा सः सङ्घर्षस्य समाप्तये प्रयतते। सः अवदत् यत् अधुना “हत्यां निवारयितुं समयः” अस्ति तथा आवश्यकतायां रूसस्य विरुद्धं नूतनाः प्रतिबन्धाः आरोपयितुं शक्यन्ते।
लातिनी-अमेरिकायाः सन्दर्भे ट्रम्पः वेनेजुएलायां अमेरिकीकार्यवाहीं तथा कैरिबियन-प्रशान्तक्षेत्रयोः सन्दिग्ध-मादकद्रव्यतस्करीं कुर्वतीनां नौकानां विरुद्धं कृतानाम् अमेरिकी-आक्रमणानां समर्थनं कृतवान्। क्यूबादेशस्य विषये सः तत्र “मूलभूत-परिवर्तनम्” आनेतुं स्वसर्वकारस्य नीतिं पुनः प्रतिपादितवान्।
ग्रीनलैण्डदेशस्य विषये ट्रम्पः डेनमार्केन सह नूतनस्य सन्धेः उल्लेखं कृत्वा अवदत् यत् तस्याः अन्तर्गतं अमेरिकादेशः तत्र स्वकीयां सुरक्षाव्यवस्थां सुदृढां करिष्यति तथा द्वे बृहद् सैन्यस्थले निर्मास्यति।
कृत्रिमबुद्धिमत्तायाः विषये ट्रम्पः नियमन-सम्बद्धानां वैश्विकप्रयत्नानां विरोधं कृत्वा तस्याः कृते “सुपर इण्टेलिजेन्स” इति नाम प्रयोजनीयम् इति प्रतिपादितवान्। सः अवदत् यत् अमेरिकादेशः कृत्रिम-बुद्धिमत्तायाः क्षेत्रे चीनदेशात् अग्रे अस्ति तथा एताम् अग्रतां संरक्षितुम् इच्छति।
सम्बोधनस्य अन्ते ट्रम्पः विश्वस्य नेतॄन् भयस्य संशयस्य च स्थाने निर्णायकपदानि स्वीकर्तुं आह्वानं कृतवान् तथा अवदत् यत् तस्य लक्ष्यं विश्वम् अधिकं सुरक्षितं श्रेष्ठतरं च कर्तुम् अस्ति।
Hindusthan Samachar / Divya Ranjan