Enter your Email Address to subscribe to our newsletters


मुम्बई, २२ सेप्टेम्बरमासः (हि.स.)। बॉलीवुड-अभिनेत्री रानी मुखर्ज्याः मातु: कृष्णा मुखर्ज्याः मङ्गलवासरे मध्याह्ने ७५ वर्षस्य वयसि निधनम् अभवत्। तस्याः निधनस्य वार्ता प्रकाशिते सति मुखर्जीपरिवारे चलचित्रजगति च शोकस्य वातावरणं जातम्। यशराज-फिल्म्स्-संस्थया प्रकाशिते आधिकारिके निवेदने परिवारेण दुःखदस्य अस्य समाचारस्य पुष्टिः कृता। परिवारेण अस्मिन् कठिनसमये प्रशंसकेभ्यः शुभचिन्तकेभ्यश्च निजतायाः सम्मानं कर्तुम् आग्रहः कृतः।
यशराज-फिल्म्स्-संस्थया परिवारेण सह प्रकाशिते निवेदने उक्तं यत् कृष्णा मुखर्ज्याः निधनात् परिवारः गहनशोके अस्ति। कठिनसमये प्राप्तस्य प्रेम्णः, प्रार्थनानां समर्थनस्य च कृते परिवारेण सर्वेभ्यः कृतज्ञता प्रकटिता। शोकस्य अस्मिन् समये तेषां निजीभावनानां पारिवारिकसमयस्य च सम्मानं कर्तुं जनाः अनुरोधिताः। अद्यावधि तस्याः निधनस्य कारणं अन्त्येष्टिसम्बद्धा विस्तृता सूचना वा सार्वजनिकरूपेण न प्रकाशिता।
पुत्र्याः रानीमुखर्ज्या: चलचित्रजीवने महत्त्वपूर्णम् योगदानम्
कृष्णामुखर्ज्याः सम्बन्धः अपि चलचित्रजगता सह आसीत्। सा बाङ्ग्ला-हिन्दी-चलचित्रेषु पार्श्वगायिकायाः रूपेण कार्यं कृतवती आसीत्। ‘मॉमेर आलो’, ‘हैवान’, ‘तीसरी आंख’, ‘तोमार रक्ते आमार सोहाग’ इत्यादिषु चलचित्रेषु तस्याः नाम सम्बद्धं दृश्यते। सा चलचित्रनिर्मातुः राममुखर्ज्याः पत्नी आसीत्। राममुखर्जी चलचित्रालय-स्टूडियो इत्यस्य संस्थापकेषु अन्यतमः आसीत्।
कृष्णा मुखर्ज्याः स्वपुत्र्या सह अत्यन्तं निकटसम्बन्धः आसीत्। रानीमुखर्जी अनेकेषु अवसरेषु स्वमातरं स्वजीवनस्य अभिनयजीवनस्य च महत्त्वपूर्णा प्रेरणा इति वर्णितवती अस्ति। वार्तानुसारं कृष्णा रान्याः अभिनयप्रतिभां प्रारम्भिककाले एव ज्ञातवती तथा च तां चलचित्रजगति अग्रे गन्तुं प्रोत्साहितवती। रानीमुखर्जी अपि विभिन्नेषु अवसरेषु स्वमातुः मार्गदर्शनस्य समर्थनस्य च स्मरणं कृतवती।
परिवाराय भावुकः समयः
कृष्णामुखर्ज्याः पुत्र्या रानीमुखर्ज्या सह अनेकेषु सार्वजनिकेषु अवसरेषु दृष्टा आसीत्। रानीमुखर्ज्या: चलचित्रयात्रायां परिवारस्य भूमिका सदा महत्त्वपूर्णा आसीत्। चलचित्रपृष्ठभूमियुक्ते परिवारे वर्धिता रानी अग्रे हिन्दीचलचित्रजगति स्वकीयं विशिष्टं स्थानं निर्मितवती। सा प्रायः त्रिंशद्वर्षीय-अभिनयजीवने ‘कुछ कुछ होता है’, ‘साथिया’, ‘हम तुम’, ‘ब्लैक’ तथा ‘मर्दानी’ इत्यादिषु चलचित्रेषु स्मरणीयाः भूमिकाः निर्वुढवती।
रानीमुखर्ज्या: पिता राममुखर्ज्याः निधनम् २०१७ तमस्य वर्षस्य अक्टोबरमासे अभवत्। अधुना मातुः कृष्णा मुखर्ज्याः निधनात् परिवारः पुनः एकेन निकटस्थेन सदस्येन विहीनः अभवत्। अस्मिन् दुःखदसमये परिवारेण सार्वजनिकरूपेण जनान् तेषां निजसमयस्य भावनानां च सम्मानं कर्तुम् आग्रहः कृतः।
Hindusthan Samachar / Divya Ranjan