Enter your Email Address to subscribe to our newsletters


धमतरी, 22 सितंबरमासः (हि.स.)। सेवासङ्कल्पाभियानस्य अन्तर्गतस्य मगरलोडविकासखण्डस्य सुदूरवनाञ्चलक्षेत्रे निवसन्ती सफीनाबानो प्रतिकूलपरिस्थितीनां मध्ये स्वरोजगारस्य मार्गम् अवलम्ब्य आत्मनिर्भरतायाः नवीनम् उदाहरणं प्रस्तुतवती अस्ति। सक्षमयोजनया सफीनायाः जीवनस्य मार्गः परिवर्तितः। कुक्कुटपालनेन शशकपालनेन च सा स्वावलम्बिनी अभवत्।
पत्या परित्यक्तायाः सफीनायाः पुरतः वृद्धमातुः परिचर्या, पुत्र्याः पालनपोषणं परिवारस्य व्ययभारश्च प्रमुखाः दायित्वाः आसन्। स्थायिरोजगारस्य पैतृकसम्पत्तेश्च अभावात् आर्थिककष्टान्यपि आसन्। एतस्मिन् समये तस्याः परिचयः क्षेत्रपर्यवेक्षकेण झामिनबिन्झेकर इत्यनेन सह अभवत्। तेन सफीनायै सक्षमयोजनायाः विषये सूचना दत्ता तथा स्वरोजगारार्थं मार्गदर्शनं कृतम्। सफीनायाः इच्छां दृष्ट्वा झामिनबिन्झेकरः तस्याः गृहम् उपगत्य व्यवसायार्थं द्विलक्षरूप्यकाणां ऋणस्य आवेदनपत्रं पूरितवान्। २०२५ तमस्य वर्षस्य दिसम्बरमासे ऋणस्य स्वीकृत्यनन्तरं सफीनया कुक्कुटपालनस्य शशकपालनस्य च व्यवसायः प्रारब्धः।
परिश्रमेण निष्ठया च व्यवसायः क्रमशः प्रगतिम् अगच्छत्। अधुना तस्याः पालनकेन्द्रे शतशः कुक्कुटाः सन्ति तथा शशकपालनेनापि आयः प्राप्यते। ततः सा इष्टिकाभट्टीनिर्माणस्य कार्यमपि प्रारब्धवती। अनेन तस्याः आर्थिकस्थितिः अधिकं सुदृढा अभवत्। अधुना सा स्वमातुः औषधानां क्रयणं परिचर्यां च, गृहव्ययम् पुत्र्याः शिक्षां च उत्तमरीत्या निर्वोढुं शक्नोति।
सफीना कथयति, “भगिनि, पूर्वं जनाः मां दीनाम् इति कथयन्ति स्म, अद्य ते एव जनाः मत्तः कार्यं याचितुम् आगच्छन्ति।” तस्याः कथनानुसारं योजनया प्राप्तया आर्थिकसहायतया सह प्रदत्तं मार्गदर्शनम् अपि तस्यै स्वपादयोः स्थातुं आत्मविश्वासं प्रदत्तवान्।
सफीनायाः कथा दर्शयति यत् अवसरः, परिश्रमः सम्यक् मार्गदर्शनं च प्राप्य कठिनपरिस्थितयः अपि परिवर्तयितुं शक्यन्ते। अद्य सा स्वपरिवारस्य पालनं कुर्वती अन्येषां कृते अपि वृत्तेः साधनं भवति।
Hindusthan Samachar / Dheeraj Maithani