Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २२ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयगृहमन्त्री एवं सहकारितामन्त्री अमितशाहः मङ्गलवासरे अवदत् यत् भारतस्य २०२९ तमवर्षस्य डिसेम्बर-मासस्य ३१ दिनाङ्कपर्यन्तं सामूहिक-प्रयत्नैः देशात् मादकद्रव्यव्यापारं समूलम् उन्मूलयितुं लक्ष्यम् निर्धारितम् अस्ति। अस्य कृते सर्वैः राज्यैः केन्द्रशासितप्रदेशैश्च एकीभूय निर्णायक-कार्यवाही करणीया।
शाहः अत्र मादकद्रव्यनिरोधककार्यबलस्य प्रमुखानां तृतीयस्य राष्ट्रियसम्मेलनस्य उद्घाटनं कुर्वन् अवदत् यत् मादक-द्रव्यविरुद्धे अभियाने केवलं मादकद्रव्याणां ग्रहणे ध्यानं न दत्त्वा सम्पूर्णं जालं विनाशयितुं बलं दातव्यम्। अस्मिन् सङ्घर्षे लक्ष्यम्, समयसीमा उत्तरदायित्वं च स्पष्टं भवेत् इति सः अवदत्।
सः अवदत् यत् मादकद्रव्यव्यापारस्य निवारणाय ‘सभातः अभियानस्य’, ‘प्रतिवेदनात् परिणामस्य’, ‘ग्रहणात् जालविनाशस्य’ तथा ‘प्रकरणात् दोषसिद्धेः’ दिशि अग्रे गन्तव्यम्। एएनटीएफ-सङ्घटनस्य ‘मादकद्रव्यविरोधि-अभियान-नियन्त्रणदलस्य’ रूपेण विकासे अपि सः बलं दत्तवान्।
शाहः अवदत् यत् जनपदः मादकद्रव्य-विरुद्धकार्यवाहीयाः मूलभूतः एककः करणीयः। तदन्तर्गतं जनपदानि मादकद्रव्याणां उत्पादनप्रवेशक्षेत्राणां, परिवहनमार्गाणां तथा सेवनक्षेत्राणां त्रिषु समूहेषु विभज्य कार्यवाही करिष्यते। मादकद्रव्यजालं विनाशयितुं वित्तीया-न्वेषणस्य डिजिटलान्वेषणस्य च प्राथमिकता दातव्या इति सः उक्तवान्।
गृहमन्त्री अवदत् यत् विदेशेभ्यः मादकद्रव्याणाम् आपूर्तिं कुर्वतः पलायितान् अभियुक्तान् गृहीत्वा भारतीय-न्यायालयानां समक्षम् आनीयते। विदेशीयानभियुक्तान् निर्वासयितुं तान् कृष्णसूच्यां स्थापयितुं च कार्यवाही भविष्यति।
सः अवदत् यत् मादकद्रव्यविरुद्धे अभियाने यूनां भूमिका महत्त्वपूर्णा अस्ति। ‘नशामुक्तमित्र’ इत्यभियानस्य अन्तर्गतं देशस्य १० लक्षं विद्यालयानां, महा-विद्यालयानां अन्यसंस्थानां च यावत् सम्प्राप्तुं लक्ष्यम् निर्धारितम् अस्ति। अद्यावधि ४६,७८० ‘नशामुक्तमित्र’ इति नाम्ना जनाः पञ्जीकृताः सन्ति।
शाहः अवदत् यत् मादकद्रव्यव्यापारस्य परिवर्तमानेषु आव्हानेषु कृत्रिममादक-द्रव्याणि, रासायनिकपूर्वद्रव्याणाम् दुरुपयोगः, डार्कनेट्, क्रिप्टोमुद्रा, नवीन-सञ्चार-माध्यमानि तथा अन्ताराष्ट्रिय-जालानि च सम्मिलितानि सन्ति। एतेषां निवारणाय अन्वेषण-प्रवर्तनसंस्थाभिः नवीनप्रौद्योगिकीः नूतन-कार्यपद्धतयश्च स्वीकर्तव्याः।
अस्मिन् अवसरे शाहः मादकद्रव्यविरोधि-जागरूकतासम्बद्धानां दूरदर्शन-विज्ञापनानां तथा नारकोटिक्स-कण्ट्रोल-ब्यूरो इत्यस्य जालपुटस्य शुभारम्भं कृतवान्। सः लखनऊ-देहरादूनयोः एनसीबी-संस्थायाः क्षेत्रीय-परिसरयोः आधारशिलाम् अपि स्थापितवान् तथा उत्कृष्टप्रदर्शनं कृतवन्तः एएनटीएफ-सङ्घटनानि सम्मानितवान्। सम्मेलने राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च ३६ एएनटीएफ-प्रमुखाः सम्मिलिताः।
सम्मेलने ‘विजन डॉक्यूमेंट् २०२६-२०२९’ इत्यस्य विषये अपि चर्चा अभवत्, यस्मिन् मादकद्रव्यविरुद्धकार्यवाह्याः कृते लक्ष्यं समयसीमा च निर्धारिते स्तः। शाहः अवदत् यत् मादकद्रव्यविरुद्धः सङ्घर्षः सर्वेषां प्रशासनिकस्तराणां सम्बद्धानां च संस्थानां समन्वितप्रयत्नेन अग्रे नेतव्यः।
Hindusthan Samachar / Divya Ranjan