मुख्यमन्त्री शुभेन्द्वधिकारी बाङ्ग्लासाहित्यकाराय शरदिन्दुबन्द्योपाध्यायाय पुण्यतिथौ श्रद्धाञ्जलिं समर्पितवान्
कोलकाता, 22 सितंबरमासः (हि.स.)। मुख्यमन्त्री शुभेन्द्वधिकारी प्रसिद्धाय साहित्यकाराय पटकथालेखकाय च शरदिन्दुबन्द्योपाध्यायाय तस्य पुण्यतिथौ विनम्रां श्रद्धाञ्जलिं समर्पितवान्। ‘सत्यान्वेषी’ व्योमकेशबक्शी इत्यस्य स्रष्टारं शरदिन्दुबन्द्योपाध्यायं स्म
मुख्यमंत्री शुभेंदु अधिकारी ने दोनों अवसरों पर संदेश जारी किया


कोलकाता, 22 सितंबरमासः (हि.स.)। मुख्यमन्त्री शुभेन्द्वधिकारी प्रसिद्धाय साहित्यकाराय पटकथालेखकाय च शरदिन्दुबन्द्योपाध्यायाय तस्य पुण्यतिथौ विनम्रां श्रद्धाञ्जलिं समर्पितवान्। ‘सत्यान्वेषी’ व्योमकेशबक्शी इत्यस्य स्रष्टारं शरदिन्दुबन्द्योपाध्यायं स्मरन् सः श्रद्धाञ्जलिं समर्पितवान्।

शरदिन्दुबन्द्योपाध्यायस्य जन्म १८९९ तमस्य वर्षस्य मार्चमासस्य त्रिंशत् दिनाङ्के उत्तरप्रदेशस्य जौनपुरे अभवत्। सः विधिविषयस्य अध्ययनं कृत्वा किञ्चित्कालं यावत् अधिवक्तृरूपेण कार्यमपि कृतवान्। पश्चात् साहित्यं पटकथालेखनं च स्वस्य प्रमुखक्षेत्ररूपेण स्वीकृतवान्। १९३८ तमे वर्षे सः मुम्बईनगरं गतवान् तथा बॉम्बेटॉकीज् संस्थायै पटकथालेखनं कृतवान्। १९५२ तमे वर्षे मुम्बईनगरं त्यक्त्वा पुणेनगरे निवासं कृत्वा साहित्यसाधनायां संलग्नः अभवत्।

बाङ्ग्लासाहित्ये शरदिन्दुबन्द्योपाध्यायः प्रमुखेषु कथाकारॆषु अन्यतमः आसीत्। ‘व्योमकेशबक्शी’ इत्यस्य अतिरिक्तं सः ऐतिहासिकेषु, सामाजिकेषु, अलौकिकेषु च विषयेषु अनेकाः प्रसिद्धाः रचनाः लिखितवान्। ‘झिन्देरबन्दी’, ‘तुङ्गभद्रायाः तीरे’, ‘कालेरमन्दिरा’, ‘गौरमल्लारः’, ‘जातिस्मरः’ ‘विषेरधोय्यां’ च तस्य उल्लेखनीयासु कृतिषु अन्तर्भवन्ति।

शरदिन्दुबन्द्योपाध्यायः व्योमकेशबक्शीं केन्द्रे निधाय कुलं त्रयस्त्रिंशत् कथाः लिखितवान्। १९३२ तमे वर्षे प्रथमवारं व्योमकेशबक्शी पात्रं पाठकेभ्यः परिचितम् अभवत्। १९७० तमस्य वर्षस्य सितम्बरमासस्य द्वाविंशतितमे दिनाङ्के शरदिन्दुबन्द्योपाध्यायस्य निधनम् अभवत्।

एतदतिरिक्तं मुख्यमन्त्री स्वसन्देशे करमपर्वणः अवसरे सर्वेभ्यः जनाभ्यः शुभकामनाः अपि प्रदत्तवान्। करमपर्व विशेषतः जनजातीयसमुदायस्य महत्त्वपूर्णं पर्व अस्ति तथा पश्चिमबङ्गस्य विभिन्नेषु भागेषु एतत् पारम्परिकेन उत्साहेन आचर्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani