Enter your Email Address to subscribe to our newsletters




सारणम्, 22 सितंबरमासः(हि.स.)। ‘स्वच्छता हि सेवा’ अभियानस्य अन्तर्गतं छपरानगरनिगमस्य पक्षतः नगरे प्रसिद्धे शिल्पीपोखरापरिसरे विशेषस्वच्छताभियानस्य आयोजनं कृतम्। अस्मिन् अवसरे पोखरापरिसरस्य समीपस्थस्य च सम्पूर्णक्षेत्रस्य स्वच्छता कृता।
कार्यक्रमे स्थानीयजनप्रतिनिधिभिः, प्रशासनिकाधिकारिभिः, नगरनिगमकर्मचारिभिः स्थानीयनागरिकैश्च सह मिलित्वा सामूहिकं श्रमदानं कृतम्। तेन सह स्थानीयजनान् स्वपरितः स्थितानां जलस्रोतसां स्वच्छतां संरक्षितुं तथा अपशिष्टं केवलं निर्धारितस्थानेषु एव क्षेप्तुं जागरूकाः कृताः।
अभियानस्य समये नगरायुक्तः रणजीतकुमारः शिल्पीपोखरस्य जीर्णोद्धारस्य सौन्दर्यीकरणस्य च योजनानां विषये सूचनां दत्तवान्। सः उक्तवान् यत् पोखरं सुव्यवस्थितं स्वच्छं सुन्दरं च कर्तुं प्रयासः क्रियते, येन तत् स्थानीयजनानां कृते प्रमुखाकर्षणकेन्द्रं भवेत् तथा नागरिकाः प्रातः सायं च अत्र भ्रमणस्य आनन्दं प्राप्तुं शक्नुयुः। अपि च परिसरं सुरक्षितं आकर्षकं च कर्तुं पोखरस्य चतुर्दिक्षु आधुनिकप्रदीपाः स्थापयिष्यन्ते।
अस्मिन् श्रमदानकार्यक्रमे विधायकः छोटी कुमारी, महापौरः लक्ष्मीनारायणगुप्तः, उपमहापौरः रागिनीकुमारी, नगरायुक्तः रणजीतकुमारः, अनुमण्डलाधिकारी नितेशकुमारः, उपनगरायुक्तः अरशदइमामः, स्वच्छताधिकारी सञ्जीवकुमारमिश्रः सुमितकुमारश्च तथा नगरप्रबन्धकौ अरविन्दकुमारः वेदप्रकाशवर्णवालश्च सहिताः स्वच्छताकर्मचारिणः सहभागितां कृतवन्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani