Enter your Email Address to subscribe to our newsletters

काकामिगहारा (जापान), २२ सेप्टेम्बरमासः (हि.स.)। भारतीयपुरुष-हॉकीदलं २० तमासु एशियाक्रीडासु स्वकीयम् उत्कृष्टप्रदर्शनं निरन्तरं कुर्वत् मङ्गलवासरे पूल-ए इत्यस्य द्वितीयस्पर्धायां श्रीलङ्कादलं १६-१ इति अङ्कैः पराजित्य क्रमशः द्वितीयं विजयम् अवाप्तवान्। गिफु-प्रिफेक्चरल-ग्रीन-स्टेडियम इत्यत्र आयोजितायाम् अस्यां स्पर्धायां भारतस्य पक्षतः अष्टभिः भिन्नैः क्रीडकैः गोल-कृतम्। जुगराजसिंहेन अभिषेकेन च त्रिवारं गोल कृत्वा हैट्रिक पूर्णीकृता।
गतायाः एशियाक्रीडायाः विजेता भारतदेशः अस्मात् पूर्वम् इण्डोनेशियादलं १३-१ इति अङ्कैः पराजित्य स्वकीयस्य अभियानस्य प्रारम्भं कृतवान् आसीत्। श्रीलङ्कायाः विरुद्धेऽपि भारतीयदलेन चतुर-क्वार्टर-पर्यन्तं निरन्तरम् आक्रामकं हॉकीक्रीडणं कृतम्।
भारतदेशः पञ्चमे निमिषे अग्रतां प्राप्तवान्। जरमनप्रीतसिंहस्य उत्कृष्टस्य क्रीडनस्य अनन्तरं मन्दीपसिंहेन गोल कृतम्। जुगराजसिंहः दशमे निमेषे पेनल्टी-कॉर्नर-अवसरं गोलरूपे परिणमयन् भारतस्य अग्रतां २-० इत्यकरोत्। अभिषेकेन एकादशे निमेषे भारतदलेन तृतीयं गोल इति कृतम्।
हरमनप्रीतसिंहेन षोडशे निमेषे पेनल्टी-कॉर्नर-माध्यमेन गोल कृतम्। तदनन्तरं एकनिमेष पश्चात् अभिषेकेन स्वस्य द्वितीयं गोल इत्यपि कृतम्, येन भारतपक्षः ५-० इति अग्रतां प्राप्तवान्। द्वाविंशे निमेषे जुगराजः अन्यं पेनल्टी-कॉर्नर-अवसरं गोलरूपे परिणमयित्वा स्वस्य द्वितीयं गोल कृतवान्। तथापि चतुर्विंशे निमेषे तस्य एकं गोल दृश्यपुनरवलोकनानन्तरं निरस्तं कृतम्।
भारतपक्षः नवविंशे निमेषे षड्गोलस्य अग्रतां पुनः प्राप्तवान्, यदा सुखजीतसिंहेन पेनल्टी-कॉर्नर-सम्बद्धाम् उत्कृष्टां रणनीतिं गोलरूपे परिणमितम्। ततः त्रिंशे निमेषे दिलप्रीतसिंहेन गोल कृत्वा मध्यावकाशपर्यन्तं भारतस्य अग्रतां ८-० इति कृतम्।
तृतीये क्वार्टर-कालेऽपि भारतस्य प्रभुत्वं निरन्तरम् अभवत्। एकत्रिंशे निमेषे मनप्रीतसिंहेन शक्तिशालिना प्रहारेण गोल कृतम्। षट्त्रिंशे निमेषे विवेकसागर-प्रसादेन पश्चहस्तप्रहारेण कन्दुकं गोलस्तम्भयोः मध्ये प्रेषितम्। अष्टात्रिंशे निमेषे दिलप्रीतेन स्वस्य द्वितीयं गोल इति कृतम्। द्विचत्वारिंशे निमेषे जुगराजेन पेनल्टी-प्रहारः गोलरूपे परिणमितः तथा सः स्वकीयं हैट्रिक् पूर्णवान्।
पञ्चचत्वारिंशे निमेषे हरमनप्रीतसिंहेन स्वस्य द्वितीयं गोल इति कृतम्। तेन तृतीयस्य क्वार्टर-कालस्य समाप्तिपर्यन्तं भारतस्य अग्रता १३-० इति अभवत्।
अन्तिमे क्वार्टर-काले एकोनपञ्चाशत्तमे निमेषे अभिषेकेन गोल कृत्वा स्वकीयं हैट्रिक् पूर्णीकृतम्। पञ्चाशत्तमे निमेषे श्रीलङ्कायाः सुरेशरत्नायकेन एकमात्रं गोल कृतम्। ततः त्रिपञ्चाशत्तमे निमेषे जुगराजेन पेनल्टी-प्रहारः गोलरूपे परिणमितः तथा तेन स्वस्य चतुर्थं गोल कृतम्। पञ्चपञ्चाशत्तमे निमिषे दिलप्रीतसिंहेन स्वस्य तृतीयं गोल कृत्वा हैट्रिक् पूर्णीकृतम् तथा भारतपक्षः १६-१ इति तः विजयम् अवाप्तवान्।
अनेन विजयेन भारतं पूल-ए इत्यत्र द्वयोः स्पर्धयोः द्वे विजये प्राप्तवान् अस्ति। भारतीयदलं सम्प्रति २४ सेप्टेम्बरमासे दक्षिणकोरियादलेन सह क्रीडिष्यति। एषा स्पर्धा भारतीयसमयानुसारं प्रातः ११:३० वादने प्रारप्स्यते।
Hindusthan Samachar / Divya Ranjan