Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 22 सितंबरमासः (हि.स.)। डांडीकांठीक्लबपरिवारस्य पक्षतः आयोजिते कार्यक्रमे प्रदेशस्य कैबिनेटमन्त्री गणेशजोशी उत्तराखण्डस्य लोकसंस्कृतेः, लोकसङ्गीतस्य पारम्परिकवाद्ययन्त्राणां च संरक्षणे संवर्धने च महत्त्वपूर्णं योगदानं दत्तवते डा. डी.आर. पुरोहिताय ‘राज्यवाद्ययन्त्रसम्मानम्’ इति सम्मानं प्रदत्तवान्।
अस्मिन् अवसरे कैबिनेटमन्त्री गणेशजोशी उक्तवान् यत् उत्तराखण्डस्य लोकसंस्कृतिः लोकपरम्पराश्च अस्माकं परिचयः अमूल्या धरोहरश्च सन्ति। पारम्परिकवाद्ययन्त्राणि अस्माकं लोकसंस्कृतेः अभिन्नानि अङ्गानि सन्ति तथा तेषां संरक्षणाय समाजस्य प्रत्येकवर्गेण अग्रे आगन्तव्यम्।
सः उक्तवान् यत् डा. डी.आर. पुरोहितेन उत्तराखण्डस्य लोकसंस्कृतेः, लोककलायाः, लोकसङ्गीतस्य पारम्परिकवाद्ययन्त्राणां च क्षेत्रे उल्लेखनीयं कार्यं कृतम्। तस्य योगदानं नवसन्ततिं स्वकीयाभिः सांस्कृतिकमूलाभिः सह संयोजयितुं महत्त्वपूर्णम् अस्ति।
मन्त्री जोशी उक्तवान् यत् लोकसंस्कृतेः संरक्षणाय संवर्धनाय च प्रदेशसर्वकारः निरन्तरं कार्यं करोति। उत्तराखण्डस्य पारम्परिकवाद्ययन्त्राणां लोककलानां च राष्ट्रियस्तरे अन्तर्राष्ट्रीयस्तरे च परिचयं स्थापयितुं सामूहिकप्रयासः आवश्यकः अस्ति।
अस्मिन् अवसरे पार्षदा कमलीभट्टः, डांडीकांठीक्लबस्य अध्यक्षः विजयभूषणउनियालः, प्रमोदनौटियालः, गीतापुरोहिता, मोहितजायसवालः, सञ्जयनौटियालः इत्यादयः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani