Enter your Email Address to subscribe to our newsletters

रायपुरम्, २२ सेप्टेम्बरमासः (हि.स.)। छत्तीसगढ-काङ्ग्रेसस्य खण्डाध्यक्षाणां त्रिदिवसीयस्य आवासीय-प्रशिक्षण-शिबिरस्य समापनम् अद्य मङ्गलवासरे भविष्यति। अन्तिमचरणे रायपुर-सम्भागस्य खण्डाध्यक्षेभ्यः विभिन्नेषु विषयेषु प्रशिक्षणं प्रदीयते।
प्रदेश-काङ्ग्रेसस्य वरिष्ठाः नेतारः प्रशिक्षणशिबिरे सङ्घटनस्य कार्य-प्रणाल्याः, जनसम्पर्कस्य, सङ्घटन-विस्तारस्य तथा अन्येषां महत्त्वपूर्ण-विषयाणां विषये खण्डाध्यक्षान् मार्गदर्शनं करिष्यन्ति।
काङ्ग्रेसेन बस्तरस्य, दुर्गस्य, सरगुजायाः बिलासपुरस्य च सम्भागानां अनन्तरं रायपुर-सम्भागस्य खण्डाध्यक्षाणां कृते इदं प्रशिक्षणम् आयोजितम्। बस्तरात् प्रारब्धस्य अस्य प्रशिक्षण-अभियानस्य समापनेन प्रदेशस्य सर्वेषां खण्डाध्यक्षाणां प्रशिक्षणं पूर्णं भविष्यति।
Hindusthan Samachar / Divya Ranjan