संयुक्तराष्ट्रे नेपालस्य विदेशमन्त्रिणा कृता भूटानस्य प्रधानमन्त्रिणा सह मेलनम्
न्यूयॉर्कनगरम्, २२ सितम्बरमासः (हि.स.)। संयुक्तराष्ट्रसङ्घस्य ८१-तमायां महासभायां भागं ग्रहीतुं न्यूयॉर्कनगरम् आगतः नेपालस्य विदेशमन्त्री शिशिरखनालः भूटानस्य प्रधानमन्त्रिणा छिरिङ्ग् तोब्गे-महोदयेन सह सोमवासरे मेलनम् अकरोत्। ​भूटानस्य प्रधानमन्त्र
भूटान के प्रधानमंत्री से मुलाकात करते नेपाल के विदेश मंत्री


न्यूयॉर्कनगरम्, २२ सितम्बरमासः (हि.स.)। संयुक्तराष्ट्रसङ्घस्य ८१-तमायां महासभायां भागं ग्रहीतुं न्यूयॉर्कनगरम् आगतः नेपालस्य विदेशमन्त्री शिशिरखनालः भूटानस्य प्रधानमन्त्रिणा छिरिङ्ग् तोब्गे-महोदयेन सह सोमवासरे मेलनम् अकरोत्।

​भूटानस्य प्रधानमन्त्री मेलनस्य छायाचित्रं सामाजिकपटले संविभज्य प्रसन्नतां प्राकटयत्। सः ‘एक्स’ इत्यत्र अलिखत्, “अद्य न्यूयॉर्कनगरे शिशिरखनाल-महोदयेन सह मिलित्वा प्रसन्नता सञ्जाता। अस्मिन् काठिन्यसमये नेपालं प्रति भूटानस्य ऐक्यभावः पुनः प्रकटितः। नेपाले अचिरात् आगतेन जलप्लावेन प्रभावितानां जनानां पुनरावासाय पुनर्निर्माणाय च शुभाशयाः दत्ताः।”

​विदेशमन्त्री शिशिरखनालः रविवासरस्य सायङ्काले काठमाण्डू-नगरात् न्यूयॉर्कनगरं प्रति प्रस्थितवान् आसीत्।

न्यूयॉर्कनगरे खनालः संयुक्तराष्ट्रमहासभायाः उच्चस्तरीयसत्रस्य अन्तर्गतं विभिन्नेषु उच्चस्तरीय-उपवेशनेषु, पार्श्व-आयोजनेषु, मन्त्रिस्तरीयकार्यक्रमेषु च भागं ग्रहीष्यति। अस्मिन् अवसरे सः स्वसमकक्षैः अन्यैः विशिष्टजनैः सह अपि द्विपक्षीयमेलनं करिष्यति।

​तत्रैव, नेपालस्य प्रधानमन्त्री बालेन्द्र शाहः मङ्गलवासरस्य मध्याह्ने संयुक्तराष्ट्रमहासभायां भागं ग्रहीतुं नेपाली-प्रतिनिधिमण्डलेन सह अमेरिकां प्रति प्रस्थानं कुर्वन् अस्ति।

--------

Hindusthan Samachar / Sachin Budhauliya