मुख्यमन्त्री योगी आदित्यनाथः त्रिसहस्रपञ्चशतषट्सप्तति चयनिताभ्यर्थिभ्यः नियुक्तिपत्राणि वितीर्णवान्
लखनऊ, 22 सितंबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः मङ्गलवासरे उत्तरप्रदेशशिक्षासेवाचयनायोगेन चयनितेभ्यः त्रिसहस्रपञ्चशतसप्तषष्टिभ्यः अभ्यर्थिभ्यः नियुक्तिपत्राणि वितरितवान्। मुख्यमन्त्री योगी उक्तवान् यत् २०१७ तमवर्षात् पूर्वं ये आवेदनमपि न
नियुक्ति पत्र वितरित करते मुख्यमंत्री योगी


लखनऊ, 22 सितंबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः मङ्गलवासरे उत्तरप्रदेशशिक्षासेवाचयनायोगेन चयनितेभ्यः त्रिसहस्रपञ्चशतसप्तषष्टिभ्यः अभ्यर्थिभ्यः नियुक्तिपत्राणि वितरितवान्। मुख्यमन्त्री योगी उक्तवान् यत् २०१७ तमवर्षात् पूर्वं ये आवेदनमपि न कुर्वन्ति स्म, तेऽपि पश्चाद्द्वारेण नियुक्तिपत्राणि प्राप्नुवन्ति स्म। भ्रष्टाचारः चरमसीमायाम् आसीत्। योग्येभ्यः युवभ्यः रोजगारः न प्राप्यते स्म। सैफईसमूहः सर्वकारीयरोजगारेषु हस्तक्षेपं कुर्वन् आसीत्। अधुना उत्तरप्रदेशः परिवर्तते। अत्र योग्येभ्यः युवभ्यः रोजगारः प्राप्यते।

उत्तरप्रदेशशिक्षासेवाचयनायोगेन निष्पक्षपारदर्शकप्रक्रियया अशासकीयसहायताप्राप्तेषु माध्यमिकविद्यालयेषु त्रिसहस्रपञ्चशतसप्तषष्टिः प्रधानाचार्याणां, प्रवक्तॄणां, सहायकाध्यापकानां च पदानां कृते अभ्यर्थिनः चयनिताः। लखनऊस्थे इन्दिरागान्धीप्रतिष्ठाने आयोजिते कार्यक्रमे द्वादश चयनिताभ्यर्थिभ्यः सांकेतिकरूपेण नियुक्तिपत्राणि प्रदत्तानि।

मुख्यमन्त्री योगी आदित्यनाथः स्वसम्बोधने चयनिताभ्यर्थिभ्यः शुभकामनाः प्रदाय उक्तवान् यत् एषः कार्यक्रमः अस्माकं कृते विशेषः अस्ति। विशेषः अस्मात् कारणात् यत् अद्य केवलं नियुक्तिपत्रवितरणस्य कार्यक्रमः नास्ति, अपितु त्रिसहस्रपञ्चशतसप्तषष्टिजनानां चयनं कृत्वा प्रधानमन्त्री नरेन्द्रमोदिनः आत्मनिर्भरविकसितभारतस्य सङ्कल्पं पूर्णं कर्तुं अवसरः अस्ति।

योगी उक्तवान् यत् यदि एकः शिक्षकः प्रतिवर्षं शतं छात्रैः सह संवादं करोति, तर्हि त्रिलक्षाधिकैः छात्रैः सह तस्य सम्पर्कः भविष्यति। तक्षशिलायाः नालन्दायाश्च समये भारतं विश्वगुरुरासीत्। भारतस्य समीपे सा धरोहरः अद्यापि वर्तते। आवश्यकता केवलं तस्याः सम्यगवबोधनस्य अस्ति। सर्वकारः व्यवस्थां प्रदातुं शक्नोति, किन्तु तां व्यवस्थां सफलतां नेतुं कार्यं भवद्भिः प्रशिक्षितैः विद्यार्थिभिरेव करिष्यते।

मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् २०१७ तमवर्षात् पूर्वं ये आवेदनं न कुर्वन्ति स्म, तेऽपि पश्चाद्द्वारेण नियुक्तिपत्राणि प्राप्नुवन्ति स्म। भ्रष्टाचारः चरमसीमायाम् आसीत्। योग्येभ्यः युवभ्यः रोजगारः न प्राप्यते स्म। सैफईसमूहः सर्वकारीयरोजगारेषु अधिकारं स्थापयति स्म। अद्य योग्याः छात्राः रोजगारं प्राप्नुवन्ति। अद्य उत्तरप्रदेशस्य शिक्षाव्यवस्थायां आमूलचूलपरिवर्तनं भवति। भवन्तः सर्वे तस्य साक्षिणः भविष्यथ। प्राथमिकशिक्षाक्षेत्रे जीर्णभवनानि आसन्। जलस्य शौचालयस्य च व्यवस्था नासीत्। बालकेभ्यः समुचिता व्यवस्था नासीत्। ‘ऑपरेशन कायाकल्प’ इत्यस्य माध्यमेन महत् परिवर्तनं भवति। अधुना जनानां मनसि एषा भावना अपि जायते यत् विद्यालयस्य समीपे क्रीडाङ्गणमपि भवेत्।

मुख्यमन्त्री योगी उक्तवान् यत् माध्यमिकशिक्षाक्षेत्रे ‘प्रोजेक्ट अलंकार’ इत्यस्य अन्तर्गतं द्विसहस्रत्रिशत् विद्यालयानां भवनानि सम्यक् कृतानि सन्ति। पञ्चदशशताधिकानां सर्वकारीयाणां अन्तरमहाविद्यालयानां भवननिर्माणं सम्पन्नम् अस्ति। एतत् कार्यं २०१७ तमवर्षात् पूर्वमपि कर्तुं शक्यते स्म, किन्तु तेषां तस्मिन् रुचिः नासीत्। तेषां समीपे दूरदृष्टिरपि नासीत्। स्वसीमितकार्यक्रमस्य अन्तर्गतं ते युवानां भविष्येन सह क्रीडां कुर्वन्ति स्म। अधुना उत्तरप्रदेशः सर्वेषु क्षेत्रेषु अग्रे वर्धते। उत्तरप्रदेशे असीमाः सम्भावनाः सन्ति। तस्य विकासस्य दायित्वं शिक्षकाणां वर्तते। सः विभागीयाधिकारिभ्यः निर्देशं दत्तवान् यत् नवनियुक्तशिक्षकाणां सेवाग्रहणे काचिदपि बाधा न उत्पद्येत। अन्यथा कठोरकार्यवाही करिष्यते।

उपमुख्यमन्त्री ब्रजेशपाठकः अवधीभाषया भाषमाणः उक्तवान् यत् २०१७ तमवर्षात् पूर्वं यावत् उत्तरप्रदेशे हत्या, लुण्ठनं, दस्युकर्म तथा महिलानां सम्मानस्य हरणं च भवति स्म। अस्माकं बालिकाः सुरक्षिताः न आसन्। मार्गाः अत्यन्तं दुर्दशाग्रस्ताः आसन्। मेरठ, गाजीपुर, बलिया इत्येतेभ्यः स्थानेभ्यः राजधानीं प्रति आगमनाय जनैः महती कठिनता अनुभूयते स्म। विद्युत् सप्ताहे दिवा सप्ताहे रात्रौ च आगच्छति स्म। अधुना पर्याप्ता विद्युत् उपलब्धा अस्ति। अस्मिन्नेव प्रदेशे शिक्षकाः शस्त्राणि धृत्वा अध्यापनार्थं गच्छन्ति स्म।

१९४७ तमवर्षात् २०१७ तमवर्षपर्यन्तं उत्तरप्रदेशे सप्तदश सर्वकारीयाः त्रयोविंशतिः च निजीवैद्यकीयमहाविद्यालयाः आसन्। अधुना पञ्चाशीतिः वैद्यकीयमहाविद्यालयाः पूर्णक्षमतया कार्यं कुर्वन्ति। सः उक्तवान् यत् अधुना विना परिचयपत्रं विना धनव्ययेन च रोजगारः प्राप्यते।

अस्मिन् अवसरे उपमुख्यमन्त्री ब्रजेशपाठकः, माध्यमिकशिक्षाराज्यमन्त्री स्वतन्त्रप्रभारः गुलाबदेवी, पूर्वमन्त्री महेन्द्रसिंहः समेताः अनेकाः प्रमुखाः जनाः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani