फिरोजाबादे ‘मम स्वप्नानां भारतम्’ विषये एकदिवसीया पोस्टर-चित्रकलाप्रदर्शिनी प्रतियोगिता च
फिरोजाबादम्, २२ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य फिरोजाबादजनपदे शिक्षा-विभागस्य चित्रसेवायाश्च तत्त्वावधाने विकासखण्डे फिरोजाबादस्थे खण्ड-संसाधनकेन्द्रे तथा पीएमश्री-कम्पोजिट-विद्यालये दबरईस्थे च ‘मम स्वप्नानां भारतम्’ इति विषये एकदिवसीया पोस
प्रदर्शनी का अवलोकन करते डीएम


फिरोजाबादम्, २२ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य फिरोजाबादजनपदे शिक्षा-विभागस्य चित्रसेवायाश्च तत्त्वावधाने विकासखण्डे फिरोजाबादस्थे खण्ड-संसाधनकेन्द्रे तथा पीएमश्री-कम्पोजिट-विद्यालये दबरईस्थे च ‘मम स्वप्नानां भारतम्’ इति विषये एकदिवसीया पोस्टर-चित्रकलाप्रदर्शिनी प्रतियोगिता च आयोजिते।

कार्यक्रमस्य मुख्यातिथिभ्यां जिलाधिकारी सन्तोषकुमारशर्मणा मुख्यविकासाधिकारी शत्रोहनवैश्येन च प्रदर्शिन्याः शुभारम्भः कृत्वा अवलोकनं कृतम्। विद्यालयीयैः छात्रैः छात्राभिश्च स्वस्य सृजनात्मक-चिन्तनस्य चित्रकलायाश्च माध्यमेन विकसितभारतस्य, अन्तरिक्षविज्ञानस्य, पर्यावरणसंरक्षणस्य आधुनिकप्रौद्योगिक्याः च आधारेण अत्यन्तं आकर्षकाणि पोस्टर-चित्राणि प्रस्तुतानि।

निरीक्षणकाले जनपदाधिकारिणा सन्तोष-कुमारशर्मणा मुख्यविकासाधिकारी शत्रोहनवैश्येन च बालकैः तैः निर्मितानां ‘मिशन-चन्द्रयानम्’, ‘हरित-ऊर्जा’, ‘डिजिटल-इण्डिया’ इत्यादिविषयाणां चित्राणां विषये चर्चा कृता। तयोः बालकानां कलात्मककौशलस्य भूरि-भूरि प्रशंसा कृत्वा तेषाम् उत्साहवर्धनम् अपि कृतम्।

कार्यक्रमस्य अन्ते उत्कृष्टप्रदर्शनं कृतवद्भ्यः छात्रेभ्यः छात्राभ्यश्च जन-पदाधिकारी-मुख्यविकासाधिकारीभ्यां स्मृतिचिह्नानि प्रशस्तिपत्राणि च प्रदाय सम्मानिताः कृताः। अस्मिन् अवसरे शिक्षाविभागस्य अधिकारिणः, खण्डशिक्षा-धिकारी, सम्बद्धविद्यालयानां प्रधानाचार्याः, शिक्षकाः शिक्षिकाश्च बहुसंख्यकाः छात्राश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan