वाराणस्याम् – शतकोटिरूप्यकाधिकपरियोजनायाः शुभारम्भकार्यक्रमाय पार्षदेन् मुद्रितम् आमन्त्रणपत्रम्, क्षेत्रे चर्चाऽभवत्
वाराणसी, 22 सितम्बरमासः (हि. स.)। वाराणस्यां कैण्टविधानसभाक्षेत्रस्य अन्तर्गतं जोल्हाउत्तरीयवार्डे वाराणसीनगरनिगमस्य पक्षतः २२ किलोमीटरपरिमितस्य मलजलनिकासमार्गस्य पेयजलवाहिन्याः गृहसंयोजनस्य च मूलभूतसुविधानां कृते १०३ कोटिरूप्यकाणां व्ययेन परियोजना
पार्षद का आमंत्रण पत्र


वाराणसी, 22 सितम्बरमासः (हि. स.)। वाराणस्यां कैण्टविधानसभाक्षेत्रस्य अन्तर्गतं जोल्हाउत्तरीयवार्डे वाराणसीनगरनिगमस्य पक्षतः २२ किलोमीटरपरिमितस्य मलजलनिकासमार्गस्य पेयजलवाहिन्याः गृहसंयोजनस्य च मूलभूतसुविधानां कृते १०३ कोटिरूप्यकाणां व्ययेन परियोजनायाः शुभारम्भः अभवत्। शतकोटिरूप्यकेभ्यः अधिकव्ययस्य परियोजनायाः शुभारम्भकार्यक्रमाय पार्षदेन शरदपाण्डेयेन मुद्रितस्य आमन्त्रणपत्रस्य सम्पूर्णे क्षेत्रे चर्चा अभवत्। आमन्त्रणपत्रस्य माध्यमेन पार्षदेन क्षेत्रस्य नागरिकाः अपि शुभारम्भकार्यक्रमे आमन्त्रिताः।

पार्षदः शरदः उक्तवान् यत् नगरनिगमस्य अस्याः परियोजनायाः लाभः क्षेत्रस्य प्रत्येकस्मै नागरिकाय भविष्यति। अतः शुभारम्भकार्यक्रमे क्षेत्रस्य सर्वेभ्यः बन्धुभ्यः मातृभ्यः भगिनीभ्यश्च आमन्त्रणं प्रदत्तम्। वी.डी.ए. कालोनी, बडीगैबी इत्यत्र कार्यक्रमस्थले क्षेत्रस्य बहुसंख्यकानां जनानां सहभागिता अपि अभवत्। सः सर्वेभ्यः हृदयपूर्वकं धन्यवादं प्रदत्तवान्।

क्षेत्रस्य नागरिकः अनिलकुमारः उक्तवान् यत् पार्षदेन आमन्त्रणपत्रस्य माध्यमेन परियोजनायाः शुभारम्भकार्यक्रमे आमन्त्रितं दृष्ट्वा तस्मै प्रसन्नता अभवत्। सः स्वपार्श्ववर्तिनां जनानाम् अपि सह नीत्वा कार्यक्रमे सम्मिलितवान्। परियोजनया बहुसंख्यकाः जनाः लाभान्विताः भविष्यन्ति।

उल्लेखनीयं यत् १०३ कोटिरूप्यकाणां व्ययेन निर्मीयमाणायाः परियोजनायाः भव्यशुभारम्भस्य अवसरे महापौरः अशोकतिवारी नगरनिगमस्य अधिकारिणश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani