Enter your Email Address to subscribe to our newsletters

लखनऊ, २२ सितम्बर (हि.स.)। प्रदेशस्य उपमुख्यमन्त्री ब्रजेशपाठकः उक्तवान् यत् “जनसेवा एव मम सङ्कल्पः अस्ति तथा प्रत्येकस्य नागरिकस्य समस्यायाः समाधानं अस्माकं सर्वोच्चप्राथमिकता अस्ति।” सः उक्तवान् यत् प्रदेशसर्वकारः सामान्यजनानां समस्याणां शीघ्रं प्रभाविरूपेण च समाधानाय पूर्णसंवेदनशीलतया कार्यं करोति।
उपमुख्यमन्त्री ब्रजेशपाठकः मङ्गलवासरे स्वनिवासस्थाने प्रदेशस्य विभिन्नेभ्यः क्षेत्रेभ्यः आगतैः नागरिकैः सह आत्मीयतया मिलितवान्। अस्मिन् अवसरे सः नागरिकानां समस्याः, अपेक्षाः जनहितसम्बद्धान् विभिन्नान् विषयांश्च गम्भीरतापूर्वकं श्रुतवान् तथा सम्बद्धप्रकरणानां विषये सूचनां प्राप्तवान्।
श्रीपाठकेन नागरिकैः प्रस्तुतानां शिकायतानां शीघ्रनिस्तारणाय सम्बन्धिताधिकारिभिः सह वार्ता कृता। सः अधिकारिभ्यः निर्देशं दत्तवान् यत् प्राप्तानां शिकायतानां शीघ्रं प्रभाविरूपेण गुणवत्तापूर्वकं च समाधानं सुनिश्चितं क्रियताम् तथा जनसमस्यानां निस्तारणे किमपि प्रमादं न क्रियताम्।
उपमुख्यमन्त्री उक्तवान् यत् सामान्यजनानां समस्याणां समाधानं शासनस्य प्राथमिकतासु अन्तर्भवति। सः अधिकारिभ्यः नागरिकानां शिकायताः गम्भीरतया स्वीकृत्य नियमानुसारं आवश्यककार्यवाही सुनिश्चितं कर्तुं निर्देशं दत्तवान्।
Hindusthan Samachar / Dheeraj Maithani