Enter your Email Address to subscribe to our newsletters


नैक-ए-प्लस-श्रेणीतः नूतनशिक्षानीतेः प्रभावी-क्रियान्वयनपर्यन्तं शिक्षायां, अनुसन्धानकार्ये, क्रीडायां आधारभूत-सुविधासु च अनेकानि महत्त्वपूर्णानि परिवर्तनानि
प्रयागराजम्, २२ सेप्टेम्बरमासः (हि.स.)। देशस्य प्रतिष्ठितेषु उच्चशैक्षणिकसंस्थानेषु अन्तर्भूतः इलाहाबादविश्वविद्यालयः स्वस्य १३९तमस्य स्थापना-दिवसस्य अवसरे उपलब्धिभिः, नवीनसम्भावनाभिः भविष्यस्य योजनाभिश्च सह अग्रे वर्धते। विगतेषु कतिपयेषु वर्षेषु कुलपतिः प्रो. सङ्गीताश्रीवास्तवामहोदयायाः नेतृत्वे विश्वविद्यालयेन शिक्षा, अनुसन्धानम्, रोजगाराभिमुखपाठ्यक्रमाः, छात्रसुविधाः, क्रीडा, आधारभूतसंरचना च इत्येतेषु क्षेत्रेषु अनेकानि महत्त्वपूर्णानि कार्याणि कृतानि। विश्वविद्यालयेन नैक्-संस्थायाः ए-प्लस-श्रेणी प्राप्ता अस्ति तथा च एनआई-आरएफ्-क्रमाङ्कनेऽपि तस्य स्थानं निरन्तरं सुदृढं भवति।
कुलपत्याः कार्यकालस्य अवधौ विश्वविद्यालये ४०० अधिकानां शिक्षकाणां तथा ६०० अशैक्षणिककर्मचारिणां नियुक्तिः कृता। विश्वविद्यालयस्य तथा पदवी-महाविद्यालयानां शिक्षकाणां पदोन्नतिः, संघटकमहाविद्यालयेषु च पदानां युक्तियुक्तीकरणस्य कार्यं सम्पन्नम्। अनेन अशैक्षणिककर्मचारिणां नियुक्तेः मार्गोऽपि प्रशस्तः अभवत्। पञ्च महाविद्यालयेषु प्राचार्याणां पुनर्नियुक्तिः तथा त्रिषु महाविद्यालयेषु नवीनप्राचार्याणां नियुक्तिः कृता, येन संघटकमहाविद्यालयेषु प्रशासनिककार्याणि सुकराणि कर्तुं दिशि अपि पदक्षेपाः कृताः।
नूतनशिक्षानीतेः अन्तर्गतं रोजगारा-भिमुखशिक्षायै बलम्
विश्वविद्यालये नूतनशिक्षानीतेः प्रभावी क्रियान्वयनं क्रियते। तदन्तर्गतं विद्यार्थिभ्यः प्रायः २०० ऐच्छिकपाठ्यक्रमाः सञ्चा-ल्यन्ते। एतेषु जीवनकौशलं व्यक्तित्व-विकासश्च सम्बद्धाः विषयाः विशेषस्थानं प्राप्नुवन्ति। तदतिरिक्तं नवीनक्षेत्रेषु रोजगाराभिमुखशिक्षां प्रदातुं प्रायः १० समेकितपाठ्यक्रमाः प्रारब्धाः सन्ति।
प्रतियोगिपरीक्षास्वपि विश्वविद्यालयस्य विद्यार्थिनः बहुभ्यः वर्षेभ्यः परं उत्साहवर्धकं प्रदर्शनं कृतवन्तः। बहुसंख्याकानां विद्यार्थिनां आईएएस्, पीसीएस इत्यादिषु अन्यासु च प्रतियोगिपरीक्षासु चयनं जातम्। अनेन विश्वविद्यालयस्य प्रतियोगिपरीक्षाणां सिद्धतायै सुदृढकेन्द्ररूपेण प्रतिष्ठा पुनः सुदृढा भवति।
छात्रसुविधानां क्रीडाक्षेत्रस्य च विस्तारः
छात्रेभ्यः उत्तमसुविधाः प्रदातुं त्रयः नवीनाः छात्रावासाः निर्मिताः। ऐतिहासिकस्य ए.एन. झा-छात्रावासस्य पुनर्निर्माणं कारितम्। अपरतः हिन्दू-छात्रावासस्य विशिष्टां धरोहरं संरक्ष्य तस्य पुनर्निर्माणं कृत्वा विद्यार्थिभ्यः सुविधायै विकसितम्। जी.एन. झा तथा ताराचन्द-छात्रावासयोः पुन-र्निर्माणकार्यं च प्रचलति। अन्येषु छात्रा-वासेष्वपि आवश्यकरक्षणकार्ये नियमित-स्वच्छतायां च ध्यानं दीयते।
क्रीडाक्षेत्रे हॉकी, क्रिकेट्, बास्केटबॉल्, बैडमिण्टन्, टेनिस्, फुटबॉल् इत्यादीनां क्रीडानां कृते प्रशिक्षकाः नियुक्ताः, क्रीडाङ्गणानि च विकसितानि। विद्यार्थिभ्यः समये समये क्रीडाप्रतियोगिताः अपि आयोज्यन्ते। तदतिरिक्तं वादविवादाः, कलाप्रतियोगिताः, सांस्कृतिकगतिविधयः तथा वार्षिके पूर्वछात्रसम्मेलने कला-मेलादीनाम् आयोजनमपि भवति।
विश्वविद्यालयस्य विभिन्नपरिसराणां सौन्दर्यीकरणे उद्यानानां संरक्षणे चापि ध्यानं दीयते। स्वच्छे अनुशासिते च वातावरणे विद्यार्थिनः अध्ययनाध्यापने निरताः भवन्ति। शिक्षकाणां सुविधायै शैशवावस्थायाः प्रारम्भिकपरिचर्याकेंद्रं (अर्ली चाइल्डहुड केयर सेन्टर) अपि स्थापितम्। तत्र शिक्षकाः स्वशिशून् सुरक्षिते सुखदायके च वातावरणे प्रशिक्षितदलस्य देखरेखायां स्थापयित्वा निर्बाधरूपेण स्वकीयम् अध्यापनकार्यं कर्तुं शक्नुवन्ति।
अनुसन्धानस्य शैक्षणिकगतिविधीनां च नूतना गतिः
विश्वविद्यालयस्य विभिन्नेषु विभागेषु नियमितरूपेण राष्ट्रियाः अन्तरराष्ट्रीयाश्च संगोष्ठ्यः सम्मेलनानि च आयोज्यन्ते। एतेषु देशविदेशेभ्यः विशेषज्ञाः भागं गृहीत्वा विद्यार्थिभिः शोधार्थिभिश्च सह संवादं कुर्वन्ति। विगतेषु कतिपयेषु वर्षेषु बहुसंख्यकाः शिक्षकाः यूजीसी, डीबीटी, डीएसटी, आईसीएसएसआर् इत्यादिभ्यः विभिन्नसंस्थाभ्यः अनुसन्धानपरियोजनाः प्राप्तवन्तः। अनेन विश्वविद्यालये अनुसन्धानगतिविधीनां नूतना गतिः प्राप्ता।
जनसम्पर्काधिकारी प्रोफेसर जया कपूर् अवदत् यत् स्थापना-दिवसः विश्व-विद्यालयस्य उपलब्धीनां स्मरणेन सह भविष्यस्य दिशां निर्धारयितुम् अपि अवसरः अस्ति। विश्वविद्यालयस्य उद्देश्यं विद्यार्थिभ्यः गुणवत्तापूर्णां रोजगाराभिमुखां च शिक्षां प्रदानेन सह अनुसन्धानस्य, क्रीडायाः, सांस्कृतिकगतिविधीनां व्यक्तित्व-विकासस्य च कृते उत्तमं वातावरणं प्रदातुम् अस्ति। संस्था नूतनशिक्षानीतेः अनुरूपम् अकादमिकगुणवत्तां वर्धयितुं विद्यार्थिनः परिवर्तमानानाम् आवश्यकतानाम् अनुरूपं सज्जीकर्तुं च निरन्तरं प्रयतते।
Hindusthan Samachar / Divya Ranjan