गङ्गां प्रदूषणात् रक्षितुं गणेशप्रतिमायाः पात्रे विसर्जनम्
गङ्गां प्रदूषणात् रक्षितुं पात्रे गणेशप्रतिमायाः विसर्जनम् प्रयागराजः, २२ सितम्बरमासः (हि.स.)। गणेशोत्सवस्य अवसरे गङ्गां प्रदूषणात् रक्षितुं विशिष्टः सन्देशः प्रदत्तः। भरद्वाजपुरमस्थिते आनन्दाखाडे महन्तस्य राजेश्वरानन्दसरस्वत्याः नेतृत्वे सन्तमहात
ड्रम में गणेश प्रतिमा का विसर्जन का छाया चित्र


गंगा को प्रदूषणमुक्त बनाने को अनूठी पहल, ड्रम में  गणेश प्रतिमा विसर्जन करने का छाया चित्र


गङ्गां प्रदूषणात् रक्षितुं पात्रे गणेशप्रतिमायाः विसर्जनम्

प्रयागराजः, २२ सितम्बरमासः (हि.स.)। गणेशोत्सवस्य अवसरे गङ्गां प्रदूषणात् रक्षितुं विशिष्टः सन्देशः प्रदत्तः। भरद्वाजपुरमस्थिते आनन्दाखाडे महन्तस्य राजेश्वरानन्दसरस्वत्याः नेतृत्वे सन्तमहात्मनां श्रद्धालूनां च उपस्थितौ विधिविधानपूर्वकं भगवान् गणेशस्य पूजनम् आरतिः च कृता। ततः रङ्गीनरसायनैः अलङ्कृतायाः गणेशप्रतिमायाः विसर्जनं प्रत्यक्षं गङ्गायां न कृत्वा आखाडापरिसरे स्थापिते बृहति पात्रे गङ्गाजलं पूरयित्वा तस्मिन् कृतम्।

विसर्जनस्य अनन्तरं पात्रे स्थितं सम्पूर्णं जलं पादपेषु गमलेषु च सिञ्चितम्। अस्याः पहलस्य माध्यमेन श्रद्धालुभ्यः धार्मिकश्रद्धया सह पर्यावरणस्य गङ्गायाश्च संरक्षणस्य सन्देशः प्रदत्तः। कार्यक्रमे उपस्थितैः जनैः सन्तानां अस्याः पहलस्य प्रशंसा कृता तथा गङ्गायाः स्वच्छतायै एतत् अनुकरणीयं पदक्षेपम् इति कथितम्।

महन्तः राजेश्वरानन्दसरस्वती उक्तवान् यत् गङ्गा अस्माकं श्रद्धायाः केन्द्रम् अस्ति, जीवनदायिनी नदी च अस्ति। धार्मिकायोजनेषु अस्माकं दायित्वम् अस्ति यत् श्रद्धया सह प्रकृतेः पर्यावरणस्य च अपि ध्यानं दद्मः। गङ्गां प्रदूषणात् रक्षितुं लघवः प्रयासाः अपि महत् परिवर्तनं जनयितुं शक्नुवन्ति।

निर्मलाखाडस्य महन्तः देवेन्द्रसिंहशास्त्री उक्तवान् यत् सर्वैः जनैः अस्माद् उपक्रमात् शिक्षितव्यम्। प्रायः वयं स्वकीयाः लघवः त्रुटीः उपेक्षामहे, किन्तु एताः एव त्रुटयः सम्मिलिताः भूत्वा गङ्गायाः प्रदूषणस्य कारणं भवन्ति। यदि प्रत्येकं जनः स्वकीयां दायित्वभावनां ज्ञात्वा गङ्गायां पूजासामग्रीणां प्रतिमानां च विसर्जनस्य स्थाने पर्यावरणानुकूलान् उपायान् स्वीकरोति, तर्हि गङ्गायाः स्वच्छतायै महती सहायता भविष्यति।

कार्यक्रमस्य अन्ते श्रद्धालुभ्यः प्रसादः वितरितः। समाजसेवी आर.के. तिवारी ‘दुकानजी’ उक्तवान् यत् आयोजनस्य उद्देश्यम् धार्मिकपरम्परया सह गङ्गासंरक्षणस्य सन्देशं जनसामान्यं प्रति प्रेषयितुम् अस्ति। सः जनान् गङ्गायाः निर्मलतां संरक्षितुं पर्यावरणानुकूलानाम् उपायानां स्वीकरणाय आह्वानं कृतवान्।

Hindusthan Samachar / Dheeraj Maithani