संस्कृतिविश्वविद्यालये विशेषज्ञैः प्रमाणाधारितस्य आयुर्वेदस्य महिमा प्रतिपादिता।
संस्कृतिविश्वविद्यालये विशेषज्ञैः प्रमाणाधारितस्य आयुर्वेदस्य महिमा प्रतिपादिता मथुरा, २२ सितम्बर। उत्तरप्रदेशस्य मथुराजनपदे एकादशमे राष्ट्रियायुर्वेददिवसस्य उपलक्ष्ये संस्कृत्यायुर्वेदिकस्नातकोत्तरचिकित्सामहाविद्यालये चिकित्सालये च मङ्गलवासरे विद
संस्कृति विवि के संतोष मैमोरियल आडिटोरियम में राष्ट्रीय आयुर्वेद दिवस पर बोलते विशेषज्ञ वक्ता।


संस्कृतिविश्वविद्यालये विशेषज्ञैः प्रमाणाधारितस्य आयुर्वेदस्य महिमा प्रतिपादिता

मथुरा, २२ सितम्बर। उत्तरप्रदेशस्य मथुराजनपदे एकादशमे राष्ट्रियायुर्वेददिवसस्य उपलक्ष्ये संस्कृत्यायुर्वेदिकस्नातकोत्तरचिकित्सामहाविद्यालये चिकित्सालये च मङ्गलवासरे विद्यार्थिनां नवीनज्ञानवर्धनस्य शैक्षणिकोन्नतेश्च उद्देशेन “प्रमाणाधारितः आयुर्वेदः” इति विषये विशेषशैक्षणिककार्यक्रमस्य आयोजनं कृतम्।

कार्यक्रमस्य मुख्यातिथिरूपेण विशेषज्ञवक्तृरूपेण च नैमिनाथ-आयुर्वेदिकचिकित्सामहाविद्यालयस्य आगरा-नगरस्य कायचिकित्साविभागस्य प्राध्यापकः डॉ. प्रसादममिडी विद्यार्थिभ्यः प्रमाणाधारितस्य आयुर्वेदस्य विविधपक्षान् अवबोधितवान्।

सः स्वकीयस्य विस्तृतस्य शैक्षणिकस्य अनुसन्धानानुभवस्य विविधानां शोधप्रकाशनानां च सन्दर्भेण विद्यार्थिभ्यः वैज्ञानिकदृष्टिकोणस्य विकासाय, चिकित्सकीयानुभवानां सम्यक् प्रलेखनाय, रोगिवृत्तान्तप्रतिवेदनस्य शोधपत्रलेखनस्य च प्रति प्रेरणां दत्तवान्। सः अवदत् यत् आयुर्वेदस्य समृद्धां शास्त्रीयपरम्परां आधुनिकैः वैज्ञानिकप्रमाणैः सह संयोजयितुं वर्तमानकाले महत्त्वपूर्णा आवश्यकता अस्ति। कार्यक्रमस्य उद्देश्यं विद्यार्थिनः केवलं पाठ्यक्रमे सीमितान् न कृत्वा नवीनतमैः अनुसन्धानेः, वैज्ञानिकप्रमाणैः, समकालीनाय आयुर्वेदिकज्ञानपरम्परया च सह सम्बद्धान् कर्तुम् आसीत्।

संस्कृत्यायुर्वेदिकचिकित्सामहाविद्यालयस्य चिकित्सालयस्य च प्राचार्यः डॉ. मोहनन् अस्मिन् अवसरे अवदत् यत् आयुर्वेदः चिकित्सायाः पारम्परिकेषु तन्त्रेषु अन्यतमः अस्ति, यः मुख्यतः व्यक्तिविशेषस्य स्वास्थ्यं केन्द्रे स्थापयित्वा समग्रसिद्धान्तान् अनुसरति। भारते प्रारब्धः आयुर्वेदः स्वास्थ्यसम्बद्धासु प्राचीनतमासु अद्यापि प्रचलितासु परम्परासु अन्यतमः अस्ति। आयुर्वेदः प्रायः ‘जीवनस्य विज्ञानम्’ इति कथ्यते, यतः संस्कृतभाषायां ‘आयुः’ इत्यस्य अर्थः जीवनम्, ‘वेदः’ इत्यस्य अर्थः विज्ञानं ज्ञानं वा भवति। जनैः दीर्घकालात् आयुर्वेदस्य प्रयोगात् सामान्यरोगाणां कृते बहवः गृहोपचाराः अपि प्रचलिताः अभवन्।

कार्यक्रमे संस्कृत्यायुर्वेदचिकित्सामहाविद्यालयस्य आन्तरिकविशेषज्ञवक्तृभिः बाह्यचिकित्साविभागस्य डॉ. मनीषतोमरः, शल्यचिकित्साविभागस्य डॉ. विनोदकुमारः, समष्टिविभागस्य डॉ. श्रीविद्या च स्वस्वविषयेषु महत्त्वपूर्णाः ज्ञानवर्धकाः प्रस्तुतयः दत्तवन्तः। एताभिः प्रस्तुतिभिः विद्यार्थिभ्यः विभिन्नेषु शैक्षणिकेषु चिकित्सकीयेषु च विषयेषु व्यावहारिकज्ञानं प्राप्तम्।

कार्यक्रमे प्रवक्ता सुधिष्ठा आगन्तुकानां स्वागतं कृतवती। अन्ते डॉ. एकता कपूरः धन्यवादज्ञापनं कृतवती।

Hindusthan Samachar / Dheeraj Maithani