Enter your Email Address to subscribe to our newsletters

नव टिहरी, 22 सितंबरमासः (हि.स.)।
सेवासप्ताहमासस्य अन्तर्गतं जनपदस्य २०१७ आङ्गनबाडीकेंद्रेषु ‘आङ्गनमिलन’ कार्यक्रमाः आयोजिताः भविष्यन्ति। अस्मिन् अवसरे उत्कृष्टकार्यं कुर्वत्यः आङ्गनबाडीकर्मकर्यः, सहायिकाः, आशाकार्यकर्त्र्यश्च सम्मानिताः भविष्यन्ति। आङ्गनबाडीकर्मकर्याणां मानधनवृद्धेः प्रस्तावः मन्त्रिमण्डलस्य उपवेशने प्रस्तुतः भविष्यति।
मङ्गलवासरे कलेक्ट्रेटसभागारे महिलासशक्तीकरणबालविकासमन्त्री रेखा आर्या सेवासप्ताहमासस्य अन्तर्गतं आङ्गनबाडीकेंद्रेषु आयोज्यमानस्य आङ्गनमिलनकार्यक्रमस्य सज्जतां प्रति उपवेशनं कृतवती। डीपीओ सञ्जयगौरवेण उक्तं यत् जनपदे समग्रतया २०१७ आङ्गनबाडीकेंद्राणि सन्ति, तेषु २०१२ केंद्राणि सक्रियाणि सन्ति।
कार्यक्रमाः जनपदस्य सर्वेषु विकासखण्डस्तरेषु आयोजिताः भविष्यन्ति। गर्भवतीभ्यः स्त्रीभ्यः प्रसूताभ्यश्च महिलाभ्यः विभागीययोजनाभ्यः लाभः प्रदास्यते। मन्त्री रेखा आर्या निर्देशं दत्तवती यत् येषु विकासखण्डेषु आङ्गनबाडीकेंद्रेषु च कार्यक्रमाः आयोजिताः भविष्यन्ति, तत्र बालकेभ्यः रचनात्मकक्रियाकलापाः सञ्चालिताः भवेयुः।
कार्यक्रमे प्रधानमन्त्रिमातृवन्दनायोजना, नन्दागौरायोजना, मुख्यमन्त्रीवात्सल्ययोजना, मुख्यमन्त्रीएकलमहिलास्वरोज़गारयोजना, पोषणमासः, गृहप्रापणीयं खाद्यान्नम् इत्यादीनां योजनानां विस्तृतं विवरणं प्रदास्यते तथा च लाभार्थिभ्यः योजनानां लाभः प्रदास्यते।
उपवेशने जिलाधिकारी नितिका खण्डेलवाल, मुख्यविकासाधिकारी वरुणा अग्रवाल, भारतीयजनतापार्टी जिलाध्यक्षः उदय रावतो, विकासखण्डप्रमुखा सुमन सजवाण, डीडीओ मो. असलम, जिलाप्रोबेशनाधिकारी ज्योति पटवाल, महिलामोर्चा जिलाध्यक्षा इन्दु डङ्गवाल, पूर्वजिलाध्यक्ष विनोद रतूडी, गोविन्द रावतश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani