मुम्बई इत्यत्र आईआईसीटी-संस्थायाः प्रथमः परिसरः प्रारब्धः, स्थायीपरिसरस्य निर्माणकार्यमपि प्रचलति - अश्विनीवैष्णवः
नवदिल्ली, २२ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयमन्त्री अश्विनीवैष्णवः मङ्गलवासरे ७२ तमे राष्ट्रियचलच्चित्रपुरस्कारसमारोहस्य अवसरे अवदत् यत् मुम्बय्याम् इण्डियन इन्स्टिट्यूट् ऑफ क्रिएटिव टेक्नोलॉजीज इत्यस्य प्रथमः परिसरः प्रारब्धः अस्ति। वेव्स-शिखर
अश्विनी वैष्णव, सूचना एवं प्रसारण मंत्री


नवदिल्ली, २२ सेप्टेम्बरमासः (हि.स.)।

केन्द्रीयमन्त्री अश्विनीवैष्णवः मङ्गलवासरे ७२ तमे राष्ट्रियचलच्चित्रपुरस्कारसमारोहस्य अवसरे अवदत् यत् मुम्बय्याम् इण्डियन इन्स्टिट्यूट् ऑफ क्रिएटिव टेक्नोलॉजीज इत्यस्य प्रथमः परिसरः प्रारब्धः अस्ति। वेव्स-शिखरसम्मेलनस्य अनन्तरं प्रारब्धस्य अस्य संस्थानस्य स्थायीपरिसरस्य निर्माणकार्यमपि प्रचलति।

गुजरातस्य एकतानगरे प्रथमवारम् आयोजिते पुरस्कारसमारोहस्य अवसरे सः अवदत् यत् सम्प्रति राष्ट्रियचलच्चित्रविकासनिगमस्य भवने आईआईसीटी-संस्था सञ्चाल्यते। अद्यावधि त्रयोदशसु पाठ्यक्रमेषु ३८० छात्राः प्रवेशं प्राप्तवन्तः। विशेषतया एते सर्वे पाठ्यक्रमाः उद्योगक्षेत्रस्य आवश्यकतानाम् अनुरूपं निर्मिताः सन्ति। एतेषु नवीनप्रौद्योगिक्याः अत्याधुनिकशिक्षायाश्च विशेषं महत्त्वं दत्तम् अस्ति।

वैष्णवः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी देशस्य सर्वेषां भागेभ्यः १५,००० सृजनशीलयुवानः एतादृशेन प्रशिक्षणेन सम्बद्धान् कर्तुं स्वीकृतवान् अस्ति। अस्य उद्देश्यम् अस्ति यत् युवानः नवीनप्रौद्योगिकीम् अधिगन्तुं, स्वस्य सृजनात्मकप्रतिभां विपणिं प्रति नेतुं तथा भारतस्य विविधसंस्कृतेः देशस्य विदेशस्य च समक्षं प्रस्तुतीकरणस्य अवसरं प्राप्नुयुः।

अप्रशिक्षितप्रतिभानां परिचये बलम्

केन्द्रीयमन्त्री चलच्चित्रजगतः सम्बद्धेभ्यः जनेभ्यः तासां प्रतिभानां परिचयार्थं कार्यक्रमान् निर्मातुम् आग्रहं कृतवान्, यासां प्रतिभानां नगरेषु आगन्तुम् अथवा चलच्चित्रोद्योगस्य प्रमुखव्यक्तिभ्यः मार्गदर्शनं प्राप्तुं अवसरः न प्राप्यते। सः अवदत् यत् सप्ताहान्तेषु एतेषां यूनाम् अप्रशिक्षितप्रतिभां ज्ञात्वा तान् अग्रे नेतुं कार्यक्रमः प्रारब्धुं शक्यते। अस्यां योजनायां चलच्चित्रगीतकारेण प्रसूनजोशीना सह मिलित्वा कार्यं कर्तुं विषये अपि सः उक्तवान्।

अग्रिमवर्षे अक्टोबरमासे वेव्स-२०२७

अश्विनीवैष्णवः अवदत् यत् वेव्स-२०२७ इत्यस्य आयोजनम् अग्रिमवर्षस्य अक्टोबरमासे भविष्यति। सः अवदत् यत् वेव्स-शिखरसम्मेलनस्य अनन्तरं प्रारब्धानां विभिन्नकार्यक्रमाणाम् अनुवर्तनकार्यं सम्यक् प्रचलति तथा वेव्स-माध्यमेन सृजनात्मकक्षेत्रे कार्यरतानां जनानां कृते विपणिः नूतनावसराश्च प्राप्यन्ते।

सः चलच्चित्रस्य सृजनात्मकक्षेत्रस्य च उद्योगैः सम्बद्धेभ्यः जनेभ्यः स्वकीयाः विचाराः सहभागं कर्तुम् आह्वानं कृत्वा अवदत् यत् वेव्स इत्यस्य विकासः एतादृश्याः संस्थायाः रूपेण करणीयः, या अग्रिमेभ्यः बहुभ्यः वर्षेभ्यः भारतस्य सृजनात्मकजगतः कृते अवसराणां मञ्चरूपेण तिष्ठेत्।

अस्मिन् अवसरे सः राष्ट्रियचलच्चित्रपुरस्कारविजेतृभ्यः शुभकामनाः अर्पितवान्।

Hindusthan Samachar / Divya Ranjan