पितृपक्षः २६ सेप्टेम्बरमासतः, अमावस्यायां गजच्छायायोगः
हरिद्वारम्, २२ सेप्टेम्बरमासः (हि.स.)। सनातनधर्मे पितृपक्षस्य विशेषं महत्त्वम् अस्ति। षोडशदिनात्मकः अयं कालः पूर्णतया पूर्वजेभ्यः समर्पितः भवति। मान्यता अस्ति यत् यदि पितरः प्रसन्नाः भवन्ति तर्हि जीवने सुखं शान्तिः प्रगतिश्च निरन्तरं भवति। अस्मिन्
प्रतीकात्मक चित्र


हरिद्वारम्, २२ सेप्टेम्बरमासः (हि.स.)। सनातनधर्मे पितृपक्षस्य विशेषं महत्त्वम् अस्ति। षोडशदिनात्मकः अयं कालः पूर्णतया पूर्वजेभ्यः समर्पितः भवति। मान्यता अस्ति यत् यदि पितरः प्रसन्नाः भवन्ति तर्हि जीवने सुखं शान्तिः प्रगतिश्च निरन्तरं भवति। अस्मिन् वर्षे श्राद्धपक्षे एकस्याः तिथेः क्षयः अस्ति, येन कारणेन पितृपक्षः १५-दिनात्मकः भविष्यति।

पण्डितदीपकजोशीमहोदयस्य अनुसारं यदि पितरः केनापि कारणेन अप्रसन्नाः भवन्ति तर्हि अनेकविधानां कठिनताः सम्मुखी-कर्तव्याः भवितुम् अर्हन्ति। अतः सनातनधर्मावलम्बिभिः श्राद्धपक्षे पितॄणां निमित्तं श्राद्धं, तर्पणं पिण्डदानं च अवश्यं करणीयम्। श्रीजोशीमहोदयस्य अनुसारं पञ्चाङ्गगणनानुसारं पितृपक्षस्य आरम्भः २६ सेप्टेम्बरमासतः भविष्यति। अस्मिन् दिने पूर्णिमातिथेः श्राद्धं भविष्यति।

अस्मिन् वर्षे पितृपक्षे गजच्छायायोगः अपि निर्मास्यते। वस्तुतः १० अक्टोबर्-दिने सूर्यश्चन्द्रमा च उभौ हस्तनक्षत्रे सञ्चरिष्यतः, येन गजच्छायायोगस्य निर्माणं भविष्यति। अस्मिन् वर्षे चतुर्थीतिथेः पञ्चमीतिथेः च श्राद्धम् एकस्मिन्नेव दिने भविष्यति। ज्ञातव्यं यत् पितृ-अमावस्यायां सूर्यस्य चन्द्रमसश्च हस्तनक्षत्रे सञ्चारेण गजच्छायायोगः निर्मितः अस्ति। अस्मिन् योगे श्राद्धस्य, पितृतर्पणस्य तीर्थस्नानस्य च अत्यधिकं माहात्म्यम् अस्ति। १० अक्टोबरमासे, शनिवासरे अयं योगः सूर्योदयात् सूर्यास्तपर्यन्तं भविष्यति।

Hindusthan Samachar / Divya Ranjan