Enter your Email Address to subscribe to our newsletters

नैनीतालम्, २३ सेप्टेम्बरमासः (हि.स.)। अष्टदिनपर्यन्तं प्रचलितस्य १२४तमस्य श्रीनन्दादेवी-महोत्सवस्य बुधवासरे मातुः नन्दायाः सुनन्दायाश्च भव्यशोभायात्रया डोलाविसर्जनेन च भावपूर्णं समापनम् अभवत्। मातरं पितृगृहात् विदायं दातुं नगरात् दूरदूरप्रदेशेभ्यश्च आगताः सहस्रशः श्रद्धालवः शोभायात्रायां सम्मिलिताः। ‘जय देवि जय नन्दे, जयति हिमाद्रिशैलसुते’ तथा ‘माता नन्दासुनन्दयोः जयः’ इति जयघोषैः सम्पूर्णं नगरं गुञ्जितम्।
श्रद्धालुभिः पुष्पाणाम् अक्षतानां च वर्षणं कृत्वा मातुः विदायः कृतः। महिलाभिः युवतीभिश्च झोड़ा-नृत्यं कृत्वा परम्परा अग्रे वर्धिता तथा श्रद्धालुभिः क्रमेण डोली स्कन्धेषु धृतः। शारदासङ्घस्य समीपेन शोभायात्रायाः गच्छति सति मन्दं वृष्टिजलं पतितम्। श्रद्धालवः तमपि मातुः विदायस्य भावुकावसरस्य दिव्यानुभवत्वेन अमन्यन्त।
मध्याह्ने द्वादशवादने माता नन्दासुनन्दयोः शोभायात्रा नैना-देवीमन्दिरपरिसरात् नगरभ्रमणाय प्रस्थिता। नैना-देवीमन्दिरस्य बहिः, मॉलमार्गे, तल्लीताल-लेकब्रिज-चुङ्गी इत्यादिषु विभिन्नेषु स्थानेषु श्रद्धालुभिः डोली इत्यस्योपरि पुष्पाणि अक्षतांश्च अर्पिताः। मार्गे श्रद्धालुभ्यः जलं, शीतलपेयपदार्थाः प्रसादश्च वितरिताः। अस्मिन् वर्षे प्रथमवारं सोरघाटीप्रदेशस्य लखियाभूतः स्वदलेन सह शोभायात्रायाम् आकर्षणस्य केन्द्रम् अभवत्।
आयोजकसंस्थायाः आमन्त्रणेन अखाडा-दलानि, वाद्यवृन्दानि छोलिया-नृत्यदलानि च शोभायात्रायां सम्मिलितानि। शोभायात्रायाः अग्रभागे श्वेतध्वजाः पृष्ठभागे च रक्तध्वजाः आसन्। ड्रोनयन्त्रेण शोभायात्रायाः सजीव-प्रसारणमपि कृतम्। आयोजकसंस्थायाः अध्यक्षः मनोजसाहः, महासचिवः जगदीशबावड़ी, देवेन्द्रलालसाहः, डॉ. मनोजबिष्टः, गिरीशजोशी, कैलाशजोशी, डॉ. ललिततिवारी, नगरपालिकाध्यक्षः डॉ. सरस्वतीखेतवालः, तेजसिंहनेगी च सहिताः अनेके जनाः डोला सम्मिलिताः।
पाषाणदेवीमन्दिरस्य समीपे मातुः नन्दासुनन्दयोः मूर्तिनां नैनीसरोवरे विसर्जनं कृतम्। अस्मिन् अवसरे आगामिवर्षे मातुः पुनरागमनस्य प्रार्थनां कुर्वतां श्रद्धालूनां नेत्राणि अश्रुपूर्णानि अभवन्। प्रशासनस्य लोकनिर्माण-विभागस्य च पक्षतः अधो-मॉलमार्गस्य उद्घाटनस्य व्यवस्था कर्तुं न शक्यते स्म, अतः अस्मिन् वर्षे प्रथमवारं डोलः मुख्य-मॉलमार्गेण नीतः। नगरपालिकया फड़-आपणानां स्थापनं कृतत्वात् द्वितीयवारमपि डोलः नगरपालिकामार्गेण न गन्तुं शकितः। अपरतः डीएसए-क्रीडाङ्गणे आयोजिते मेलापकेऽपि महान् सम्मर्द: आसीत्। आपणेभ्यः क्रयणाय दोलानां च उपयोगाय श्रद्धालुभिः दीर्घकालं प्रतीक्षितम्। मेलापके जनसमूहे वर्धमाने सति आपणिकेषु उत्साहः दृश्यते स्म।
Hindusthan Samachar / Divya Ranjan