छात्रसंसदनिर्वाचनस्य तिथिं राज्यसर्वकारः घोषयतु : एबीवीपी
तिथिः न घोषिताचेत् मार्गेषु अवतीर्य आन्दोलनस्य चेतावनी भुवनेश्वरम्, २३ सितम्बर (हि.स.)। अखिलभारतीयविद्यार्थिपरिषद् इत्यनेन ओडिशाराज्यस्य उच्चशिक्षणसंस्थासु छात्रसंसदनिर्वाचनं शीघ्रं कारयितुं तस्य निर्धारिततिथेः तत्कालं घोषणां कर्तुं च आग्रहः कृतः।
एबीवीपी की ओडिशा (पूर्व) की राज्य सचिव दीप्तिमयी प्रतिहारी एवं अन्य


तिथिः न घोषिताचेत् मार्गेषु अवतीर्य आन्दोलनस्य चेतावनी

भुवनेश्वरम्, २३ सितम्बर (हि.स.)। अखिलभारतीयविद्यार्थिपरिषद् इत्यनेन ओडिशाराज्यस्य उच्चशिक्षणसंस्थासु छात्रसंसदनिर्वाचनं शीघ्रं कारयितुं तस्य निर्धारिततिथेः तत्कालं घोषणां कर्तुं च आग्रहः कृतः। सङ्घटनेन चेतावनी प्रदत्ता यत् यदि सर्वकारेण शीघ्रं स्पष्टः निर्णयः न क्रियते, तर्हि अखिलभारतीयविद्यार्थिपरिषद् मार्गेषु अवतीर्य आन्दोलनं करिष्यति।

अखिलभारतीयविद्यार्थिपरिषदः ओडिशापूर्वस्य राज्यसचिवा दीप्तिमयीप्रतिहारी उक्तवती यत् राज्यस्य उच्चशिक्षणसंस्थासु गतप्रायेषु अष्टवर्षेषु छात्रसंसदनिर्वाचनस्य न आयोजनं दुर्भाग्यपूर्णं चिन्ताजनकं च अस्ति। तस्याः अनुसारं परिसरः लोकतन्त्रस्य पाठशाला इति मन्यते तथा तत्र निर्वाचनस्य अभावेन विद्यार्थिनां नेतृत्वक्षमतायाः विकासस्य लोकतान्त्रिकसहभागितायाश्च अवसराः प्रभाविताः भवन्ति।

तया उक्तं यत् छात्रसमुदायः छात्रसंसदनिर्वाचनस्य विषये आशान्वितः अस्ति, किन्तु राज्यसर्वकारः अस्मिन् विषये केवलं सकारात्मकसङ्केतं वा आश्वासनं वा दत्त्वा स्वकीयदायित्वात् न पलायितुं शक्नोति। सर्वकारेण स्पष्टं करणीयं यत् छात्रसंसदनिर्वाचनं कदा आयोजयिष्यते तथा तस्य निश्चिततिथिः कदा घोषितं भविष्यति।

प्रतिहारी उक्तवती यत् यदि सर्वकारः शीघ्रम् अस्मिन् दिशि स्पष्टं निर्णयं न करोति, तर्हि विद्यार्थीपरिषद् आन्दोलनाय बाध्य भविष्यति। तया उक्तं यत् आगामीषु दिनेषु एबीवीपी सर्वकारस्य कथितछात्रविरोधिनीत्याः विरुद्धं व्यापकं विरोधं प्रदर्शयिष्यति।

एबीवीपी इत्यनेन उक्तं यत् परिसरे लोकतान्त्रिकव्यवस्थायाः पुनर्स्थापनाय तस्याः आन्दोलनं निरन्तरं प्रचलिष्यति।

Hindusthan Samachar / Dheeraj Maithani