राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री च एशियाक्रीडासु पदकविजेतृभ्यः शुभकामनाः प्रदत्तवन्तः।
नवदिल्ली, 23 सितंबरमासः (हि.स.)। एशियाक्रीडा २०२६ मध्ये भारतीयक्रीडकानां उत्कृष्टप्रदर्शनाय राष्ट्रपतिः द्रौपदी मुर्मू, उपराष्ट्रपतिः सी. पी. राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्षः ओमबिरला तथा केन्द्रीयगृहमन्त्री अमितशाह च शुभकामन
मीराबाई चानू एशियाई खेलों में रजत पदक  जीतने के बाद।


महिला स्कीट टीम स्पर्धा में कांस्य पदक जीतने पर परिनाज़ धालीवाल, राइज़ा ढिल्लों और माहेश्वरी चौहान।


पुरुष स्कीट टीम स्पर्धा में कांस्य पदक जीतने पर अनंतजीत सिंह नरुका, भवतेघ सिंह गिल और मैराज अहमद खान ।


नवदिल्ली, 23 सितंबरमासः (हि.स.)।

एशियाक्रीडा २०२६ मध्ये भारतीयक्रीडकानां उत्कृष्टप्रदर्शनाय राष्ट्रपतिः द्रौपदी मुर्मू, उपराष्ट्रपतिः सी. पी. राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्षः ओमबिरला तथा केन्द्रीयगृहमन्त्री अमितशाह च शुभकामनाः प्रदत्तवन्तः।

भारोत्तोलिका मीराबाई चानू महिला ४९ किलोग्रामभारवर्गे अष्टाविंशतिवर्षाणाम् अनन्तरं भारताय एशियाक्रीडासु भारोत्तोलने रजतपदकं प्राप्य इतिहासं रचितवती। भारतीयनिशानेभाजकाः तथा सॉफ्टटेनिस्-क्रीडकः जयमीना च कांस्यपदकं प्राप्य देशस्य गौरवं वर्धितवन्तः।

राष्ट्रपतिः मुर्मू महिला-स्कीट्-दलस्पर्धायां कांस्यपदकविजेत्रीभ्यः परिनाजधालीवाल, राइजा ढिल्लों तथा माहेश्वरीचौहान इत्येतेभ्यः, पुरुष-स्कीट्-दलस्पर्धायां कांस्यपदकविजेत्रीभ्यः अनन्तजीतसिंहनरुका, भवतेघसिंहगिल तथा मैराजअहमदखान इत्येतेभ्यश्च शुभकामनाः प्रदत्तवती। राष्ट्रपतिना उक्तं यत् क्रीडकानां कौशलं, दृढसङ्कल्पः तथा दलभावना च देशस्य गौरवं वर्धितवती।

उपराष्ट्रपतिः राधाकृष्णन् महिला ४९ किलोग्रामभारवर्गे रजतपदकं प्राप्तवतीं मीराबाईचानूं प्रति शुभकामनाः प्रदत्तवान्। तेन तस्याः दृढसङ्कल्पस्य निरन्तरतायाश्च प्रशंसा कृता। सः महिला-स्कीट्-दलस्पर्धायां कांस्यपदकविजेत्रीभ्यः परिनाजधालीवाल, माहेश्वरीचौहान तथा राइजा ढिल्लों इत्येतेभ्यः, पुरुष-स्कीट्-दलस्पर्धायां कांस्यपदकविजेत्रीभ्यः अनन्तजीतसिंहनरुका, भवतेघसिंहगिल तथा मैराजअहमदखान इत्येतेभ्यश्च शुभकामनाः प्रदत्तवान्। उपराष्ट्रपतिना उक्तं यत् तेषां सटीकता, दलकार्यं तथा उत्कृष्टप्रदर्शनं देशस्य गौरवं वर्धितवन्ति। तेन सर्वेभ्यः पदकविजेतृभ्यः आगामिषु वर्षेषु अधिकसफलताप्राप्तये शुभकामनाः प्रदत्ताः।

प्रधानमन्त्रिणा नरेन्द्रमोदिना मीराबाईचानू रजतपदकं प्राप्तवती इति विषये शुभकामनाः प्रदत्ताः। तेन उक्तं यत् तस्याः दृढसङ्कल्पः निरन्तरप्रयत्नश्च सम्पूर्णं देशं प्रेरयिष्यतः तथा सम्पूर्णभारतं तस्यै गौरवान्वितम् अस्ति।

प्रधानमन्त्रिणा महिला-स्कीट्-दलस्पर्धायां कांस्यपदकविजेत्रीभ्यः परिनाजधालीवाल, माहेश्वरीचौहान तथा राइजा ढिल्लों इत्येतेभ्यः अपि प्रशंसा प्रदत्ता। तेन उक्तं यत् तासां सटीकप्रदर्शनं दलकार्यं च भारतीयक्रीडाक्षेत्राय गौरवपूर्णं क्षणं प्रस्तुतवति। पुरुष-एकलस्पर्धायां कांस्यपदकं प्राप्य सॉफ्टटेनिस्-क्रीडायां एशियाक्रीडासु भारतस्य प्रथमं पदकं प्राप्तवतः जयमीनस्य उपलब्धिं प्रधानमन्त्री ऐतिहासिकीम् उक्तवान्। तेन उक्तं यत् एषा उपलब्धिः देशे सॉफ्टटेनिस्-क्रीडायाः क्षेत्रे नूतनं स्मरणीयं च अध्यायं योजयति।

लोकसभाध्यक्षः ओमबिरला मीराबाईचानोः ऐतिहासिकप्रत्यागमनस्य उल्लेखं कृत्वा उक्तवान् यत् अष्टाविंशतिवर्षाणाम् अनन्तरम् एशियाक्रीडासु भारतस्य एतत् प्रथमं भारोत्तोलनपदकम् अस्ति। तेन महिला-स्कीट्-दलस्पर्धायां एशियाक्रीडासु प्रथमं कांस्यपदकं प्राप्तवतीभ्यः परिनाजधालीवाल, राइजा ढिल्लों तथा माहेश्वरीचौहान इत्येतेभ्यः शुभकामनाः प्रदत्ताः। पुरुष-स्कीट्-दलस्पर्धायां कांस्यपदकं प्राप्तवद्भ्यः अनन्तजीतसिंहनरुका, भवतेघसिंहगिल तथा मैराजअहमदखान इत्येतेभ्यः अपि सः शुभकामनाः प्रदत्तवान्।

केन्द्रीयगृहमन्त्री अमितशाहः अपि महिला-स्कीट्-दलस्य कांस्यपदकविजेत्रीणां क्रीडकानां प्रशंसां कृत्वा उक्तवान् यत् ताभिः देशः गौरवान्वितः कृतः। तेन ताभ्यः स्वविजयस्य उत्साहं निरन्तरं धारयितुं शुभकामनाः प्रदत्ताः।

-----------

Hindusthan Samachar / Dheeraj Maithani