Enter your Email Address to subscribe to our newsletters

भोपालम्, 23 सितम्बरमासः (हि.स.) ।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः ‘आयुष्मानभारतप्रधानमन्त्रिजनआरोग्ययोजनायाः’ अष्टवर्षाणां पूर्तौ सर्वेभ्यः लाभार्थिभ्यः देशवासिभ्यश्च शुभकामनाः प्रदत्तवान्।
मुख्यमन्त्री डॉ. यादवः बुधवासरे सामाजिकमाध्यमेन प्रसारिते स्वीयसन्देशे उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे प्रारब्धा एषा जनकल्याणकारिणी योजना स्वस्थभारतस्य संकल्पं साकारं कर्तुं दिशि महत्त्वपूर्णं पदम् अस्ति। एषा योजना निर्धनानां आवश्यकताग्रस्तानां च परिवाराणां कृते विश्वासस्य सुरक्षायाश्च आधारः अभवत्।
योजनया देशे स्वास्थ्यसेवानां जनजनपर्यन्तं प्रापणस्य तथा आर्थिकरूपेण दुर्बलानां परिवाराणां चिकित्साविषयकचिन्तातः राहतिप्रदानस्य महत्त्वपूर्णं कार्यं कृतम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani