अनिलबलूनी भाजपायाः संवहनविभागस्य समन्वयकः, आशीष-अग्रवालः माध्यमविभागस्य संयोजकः नियुक्तः
नवदिल्ली, २३ सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापक्षेण राष्ट्रिय-माध्यम-प्रभारी अनिलबलूनी तथा सह-राष्ट्रिय-माध्यम-प्रभारी आशीष-उषा-अग्रवाल इत्येतयोः सङ्गठनात्मकपदोन्नतिं कुर्वता क्रमशः संवहनविभागस्य समन्वयकः तथा माध्यमविभागस्य संयोजकः नियुक्तौ। एतौ
अनिलबलूनी भाजपायाः संवहनविभागस्य समन्वयकः, आशीष-अग्रवालः माध्यमविभागस्य संयोजकः नियुक्तः


नवदिल्ली, २३ सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापक्षेण राष्ट्रिय-माध्यम-प्रभारी अनिलबलूनी तथा सह-राष्ट्रिय-माध्यम-प्रभारी आशीष-उषा-अग्रवाल इत्येतयोः सङ्गठनात्मकपदोन्नतिं कुर्वता क्रमशः संवहनविभागस्य समन्वयकः तथा माध्यमविभागस्य संयोजकः नियुक्तौ। एतौ नियुक्तिनिर्णयौ तत्कालप्रभावात् प्रवर्तिष्येते।

भाजपानुसारम् अनिलबलूनी संवहन-विभागस्य समन्वयकरूपेण नियुक्तः अस्ति तथा आशीष-अग्रवालः पक्षस्य माध्यम-विभागस्य संयोजकरूपेण नियुक्तः अस्ति। उभयोः नियुक्त्योः प्रभावः तत्कालात् भविष्यति।

उत्तराखण्डस्य गढवाल-लोकसभाक्षेत्रस्य सांसदः अनिलबलूनी अस्याः नियुक्तेः कृते प्रधानमन्त्री नरेन्द्रमोदिनः पक्षाध्यक्षस्य नितिन-नवीनं च प्रति कृतज्ञतां प्रकटितवान्। बलूनी अवदत् यत् पक्षस्य विचारधारां, राष्ट्रसेवां सङ्गठनस्य सुदृढां वाणीं च देशस्य जनं जनं प्रति प्रभावीरूपेण प्रापयितुं सः पूर्णनिष्ठया समर्पणेन च निरन्तरं कार्यं करिष्यति।

Hindusthan Samachar / Divya Ranjan