मुख्यमन्त्री डॉ. यादवः अद्य एकादशस्य राष्ट्रिय-आयुर्वेद-दिवसस्य राज्यस्तरीयकार्यक्रमस्य शुभारम्भं करिष्यति
भोपालम्, २३ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य बुधवासरे एकादशस्य राष्ट्रिय-आयुर्वेद-दिवसस्य राज्यस्तरीय-कार्यक्रमस्य शुभारम्भं करिष्यति। मुख्यमन्त्री डॉ. यादवः प्रदेशवासिनां स्वास्थ्याय आयुष्क्षेत्रस्य उन्नत्यै च
मुख्यमंत्री डॉ. यादव 


भोपालम्, २३ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य बुधवासरे एकादशस्य राष्ट्रिय-आयुर्वेद-दिवसस्य राज्यस्तरीय-कार्यक्रमस्य शुभारम्भं करिष्यति। मुख्यमन्त्री डॉ. यादवः प्रदेशवासिनां स्वास्थ्याय आयुष्क्षेत्रस्य उन्नत्यै च अनेकानां जनकल्याणकारीणां योजनानां शुभारम्भमपि करिष्यति। तदनन्तरं विभागस्य विभिन्नानां विकासकार्याणां लोकार्पणं भूमिपूजनं च भविष्यति।

जनसम्पर्काधिकारी राजेशदाहिमा अवदत् यत् आयुष्विभागेन आयोजितः अयं कार्यक्रमः भोपालस्थे पण्डित-खुशीलाल-शर्मा-शासकीय-स्वशासी-आयुर्वेद-महाविद्यालयस्य संस्थानस्य च रजतजयन्ती-प्रेक्षागृहे प्रातः ११ वादने आरभ्यते। कार्यक्रमस्य अध्यक्षतां उच्चशिक्षा-तकनीकीशिक्षा-आयुष-विभागानां मन्त्री इन्दरसिंहपरमार: करिष्यति।

अस्मिन् अवसरे क्रीडा-युवकल्याण-सहकारितामन्त्री विश्वाससारङ्गः तथा सूक्ष्म-लघु-मध्यम-उद्यममन्त्री भोपाल-जनपदस्य प्रभारीमन्त्री च चैतन्य-काश्यपः विशिष्टातिथिरूपेण उपस्थितौ भविष्यतः। आयोजनस्य अन्तर्गतम् जनसामान्यं पारम्परिक-चिकित्सापद्धत्या सह संयोजयितुं विशेषा आयुर्वेदप्रदर्शिनी आयोज्यते। पर्यावरणसंरक्षणस्य स्वास्थ्यसंवर्धनस्य च सन्देशं प्रसारयितुम् औषधीयपादपानां रोपणमपि करिष्यते।

Hindusthan Samachar / Divya Ranjan