मादकद्रव्यविमुक्तबङ्गालस्य कृते सर्वकारः दृढप्रतिज्ञः — मुख्यमन्त्री शुभेन्दु अधिकारी
कोलकाता, 23 सितंबरमासः (हि.स.)। पश्चिमबङ्गालं मादकद्रव्यविमुक्तं कर्तुं सञ्चालितस्य अभियानस्य अन्तर्गतं दक्षिणदिनाजपुरजनपदे पुलिसप्रशासनेन कोडीनयुक्तस्य अवैधस्य कासस्य औषधस्य प्रायः द्विलक्षं कूपिकाः अधिगृहीताः तथा च विनष्टाः। मुख्यमन्त्री शुभेन्
लेबोरेट फार्मास्यूटिकल्स के पत्र के साथ मुख्यमंत्री शुभेंदु अधिकारी छवि


कोलकाता, 23 सितंबरमासः (हि.स.)।

पश्चिमबङ्गालं मादकद्रव्यविमुक्तं कर्तुं सञ्चालितस्य अभियानस्य अन्तर्गतं दक्षिणदिनाजपुरजनपदे पुलिसप्रशासनेन कोडीनयुक्तस्य अवैधस्य कासस्य औषधस्य प्रायः द्विलक्षं कूपिकाः अधिगृहीताः तथा च विनष्टाः। मुख्यमन्त्री शुभेन्द्वधिकारी बुधवासरे प्रातः प्रायः सार्धैकादशवादने समाजमाध्यमे सन्देशं प्रकाशितवान् तथा एतस्याः घटनायाः सूचना दत्तवान्।

मुख्यमन्त्रिणा उक्तं यत् पुलिसप्रशासनस्य कार्यवाहीं दृष्ट्वा कासौषधनिर्मात्री संस्था लेबोरेट फार्मास्यूटिकल्स इण्डिया लिमिटेड इत्याख्या पश्चिमबङ्गालसर्वकारं प्रति राज्ये स्वस्य ‘एस्कफ कफ सिरप’ इत्यस्य विक्रयं पूर्णतया स्थगयिष्यतीति आश्वासनं दत्तवती। संस्था स्थानीयभाण्डागारे विद्यमानस्य स्वस्य सम्पूर्णस्य भाण्डारस्य प्रत्याहरणस्य प्रक्रियामपि प्रारब्धवती अस्ति।

तेन उक्तं यत् संस्थया हरिरामपुरपुलिसस्थानस्य २६३/२०२६ क्रमाङ्कस्य प्रकरणस्य अन्वेषणाधिकारिणं प्रति प्रेषिते पत्रे प्रशासनस्य सहकारितां कर्तुं तथा मादकद्रव्याणाम् दुरुपयोगं निवारयितुं निर्धारितानां नियमानां पालनं सुनिश्चितं कर्तुं प्रतिबद्धता व्यक्तीकृता अस्ति।

शुभेन्द्वधिकारी उक्तवान् यत् अवैधमादकद्रव्याणां तेषां च तस्कर्याः विरुद्धं सर्वकारस्य शून्यसहिष्णुतायाः नीतिः निरन्तरं प्रवर्तिष्यते। तेन कार्यवाहीं कृतवद्भ्यः पुलिसकर्मिभ्यः स्थानीयप्रशासनाय च सतर्कतायै प्रशंसा कृता तथा धन्यवादः अभिनन्दनं च प्रदत्तम्।

मुख्यमन्त्रिणा उक्तं यत् युवजनानां भाविसन्ततेः च सुरक्षितभविष्याय स्वस्थस्य सुरक्षितस्य मादकद्रव्यविमुक्तस्य च पश्चिमबङ्गालस्य निर्माणं सर्वकारस्य प्रमुखं संकल्पम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani